________________
रसादिविषयो येषामीहादीनां तानि समानरूपादिविषयाणीति पूर्वगाथायां संवन्धः । कः पुनरमीषां समानधर्मा रूपादिविषयः ?. विशेषा० इत्याह- स्थाणु-पुरुषादिवदिति पर्यन्ते निर्दिष्टोऽपि विषयोपदर्शनाभिद्योतको वच्छब्दः सर्वत्र योज्यते । ततश्चक्षुरिन्द्रियप्रभवस्यहादेः
स्थाणु पुरुषादिवत् समानधर्मा रूपविषयो द्रष्टव्यः; आदिशब्दात् 'किमियं शुक्तिका, रजतखण्डं वा ?' 'मृगतृष्णिका, पयःपूरो वा ?' ॥१७३॥
'रज्जुः, विषधरो वा ?' इत्यादिपरिग्रहः । घ्राणेन्द्रियप्रभवस्येहादेः कुष्ठो-त्पलादिवत् समानगन्धो विषयः, तत्र कुष्ठं गन्धिकहट्टविक्रेयो वस्तुविशेषः, उत्पलं पद्मम् : अनयोः किल समानो गन्धो भवति । तत ईदृशेन गन्धेन 'किमिदं कुष्ठम् , उत्पलं वा ?' इत्येवमीहाप्रवृत्तिः, आदिशब्दात् 'किमत्र सप्तच्छदाः, मत्तकरिणो वा?' 'कस्तूरिका, वनगजमदो वा? इत्यादिपरिग्रहः । रसनेन्द्रियप्रभवस्येहादेः संभृतकरील-मांसादिवत् समानरसो विषयः । तत्र संभृतानि संस्कृतानि संधानीकृतान्युद्धृतानि यानि वंशजालिसंबन्धीनि करीलानि,
तथा मांसम् , अनयोः किलाऽऽस्वादः समानो भवति । ततोऽन्धकारादावन्यतरस्मिन् जिहाग्रप्रदत्ते भवत्येवम्-'किमिदं संभृतवंशRकरीलम् ,आमिषं वा?' इति; आदिशब्दाद् 'गुडः, खण्डं वा?' 'मृद्वीका, शुष्कराजादनं वा?' इत्यादिपरिग्रहः । स्पर्शनेन्द्रिय
प्रभवस्यहादेः सपो-पलनालादिवत् समानस्पर्शो विषयः, सर्पो-त्पलनालयोश्च तुल्यस्पर्शत्वेनेहाप्रवृत्तिः सुगमैव, आदिशब्दात स्त्री-पुरुषलेष्ट्र-पलादिसमानस्पर्शवस्तुपरिग्रहः ।। इति गाथार्थः ॥ २९३ ॥ ___ अथ यदुक्तं सूत्रे- “से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पासेजा" इत्यादि, तदनुसृत्य खमे मनसोऽप्यवग्रहादीन् ।
POORDSPIRSSPACIDSARAN
दर्शयन्नाह
ऐवं चिय सुमिणाइसु मणसो सद्दाइएसु विसएसु । होतिंदियवावाराभावे वि अवग्गहाईया ॥ २९४ ॥ ___ एवमेवोक्तानुसारेणेन्द्रियव्यापाराभावेऽपि स्वमादिषु, आदिशब्दाद् दत्तकपाट-सान्धकाराऽपवरकादीनीन्द्रियव्यापाराभाववन्ति स्थानानि गृह्यन्ते, तेषु केवलस्यैव मनसो मन्यमानेषु शब्दादिविषयेष्ववग्रहादयोऽवग्रहे-हा-पाय-धारणा भवन्तीति स्वयमभ्यूह्याः, तथाहि- स्वमादौ चित्तोत्प्रेक्षामात्रेण श्रूयमाणे गीतादिशब्दे प्रथम सामान्यमात्रोत्पेक्षायामवग्रहः, 'किमयं शब्दः, अशब्दो वा?' इत्याद्युपेक्षायां त्वीहा, शब्दनिश्चये पुनरपायः, तदनन्तरं तु धारणा । एवं देवतादिरूपे, कर्पूरादिगन्धे, मोदकादिरसे, कामिनीकुचकलशादिस्पर्श चोप्रेक्ष्यमाणेऽवग्रहादयो मनसः केवलस्य भावनीयाः ॥ इति गाथार्थः ॥ २९४ ॥
१ ज. 'न्युत्थिता' । २ तद्यथानामा कश्चित् पुरुषोऽव्यक्तं स्वप्नं पश्येत् । । एवमेव स्वमादिषु मनसः शब्दादिषु विषयेषु । भवन्तीन्द्रियव्यापाराभावेऽष्यवमहादयः ॥ २९४ ॥
O॥१७३॥
Jauninama
For Personal
Pre Use Only