SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥१७४॥ आह- नन्वेतेऽवग्रहादय उत्क्रमेण, व्यतिक्रमेण वा किमिति न भवन्ति, यदा, ईहादयस्त्रयः, द्वौ, एको वा किं नाऽभ्युपगम्यन्ते, यावत् सर्वेऽप्यभ्युपगम्यन्ते ?, इत्याशङ्कयाह उक्कमओऽइक्कमओ एगाभावे वि वा न वत्थुस्स । जं सब्भावाहिगमो, तो सव्वे नियमियक्कमा य ॥ २९५ ॥ एषामवग्रहादीनामुत्क्रमेणोत्क्रमतः, अतिक्रमेणाऽतिक्रमतः, अपिशब्दस्य भिन्नक्रमत्वादेकस्याऽप्यभावे वा यस्माद् न वस्तुनः सद्भावाधिगमः, तस्मात् सर्वे चत्वारोऽप्येष्टव्याः, तथा नियमितक्रमाश्च- सूत्रनिर्दिष्टपरिपाट्यन्विताश्च 'भवन्त्येतेऽवग्रहादयः' इति प्रक्रमाल्लभ्यते ।। इत्यक्षरयोजना ॥ भावार्थस्तूच्यते- तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभवनं त्वतिक्रमः, कदाचिदवग्रहमतिक्रम्येहा, तामप्यतिलया| ऽपायः, तमप्यतिवृत्य धारणेति, एवमनानुपूर्वी रूपोऽतिक्रम इत्यर्थः । एताभ्यामुत्क्रम-व्यतिक्रमाभ्यां तावदवग्रहादिभिर्वस्तुखरूपं नावगम्यते । तथा, एषां मध्ये एकस्याऽप्यन्यतरस्याऽभावे वैकल्येन वस्तुस्वभावावबोध इत्यसकृदुक्तमायमेव । ततः सर्वेऽप्यमी एष्टव्याः, न त्वेकः, द्वौ, त्रयो वेत्यर्थः । तथा ' उग्नहो ईह अवाओ य धारणा एव होति चत्तारि' इत्यस्यां गाथायां यथैवकारेण पूर्वमेतेषां नियमितः क्रमः, तथैवैते नियमितक्रमा भवन्ति, नोत्क्रमा-अतिक्रमाभ्यामिति भावः ॥ इति गाथार्थः ।। २९५ ।। अथोत्क्रमा-तिक्रमयोः, एकादिवैकल्ये चावग्रहादीनां वस्त्वधिगमाभावे युक्तिमाह-- ईहिज्जइ नाऽगहियं नजइ नाणीहियं न याऽनायं । धारिजइ जं वत्थु तेण कमोऽवग्गहाई उ ॥२९६ ॥ यस्मादवग्रहेणाऽगृहीतं वस्तु नेह्यते-न तत्रेहा प्रवर्तते, ईहाया विचाररूपत्वात् , अगृहीते च वस्तुनि निरास्पदत्वेन विचाराऽयोगादिति भावः। तदनेन कारणेनाऽऽदाववग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा । न चाऽनीहितमविचारितं ज्ञायते- अपायविषयतां याति, अपायस्य निश्चयरूपत्वात् , निश्चयस्य च विचारपूर्वकत्वादिति हृदयम् । एतदभिप्रायवता चाऽपायस्याऽऽदावीहा निर्दिष्टेति । न चाऽज्ञातम्- अपायेनाऽनिश्चितं, धार्यते धारणाविषयीभवति, वस्तुधारणाया अर्थावधारणरूपत्वात् , अवधारणस्य च निश्चयमन्तरेणाऽयोगादित्यभिप्रायः । ततश्च धारणादावपायः । ततः किम् ?, इत्याह- तेनावग्रहादिरेव क्रमो न्याय्यः, नोत्क्रमा-ऽतिक्रमो, यथोक्तन्यायेन वस्त्वेवगमाभावप्रसङ्गात् ।। इति गाथार्थः ।। २९६ ॥ १ उत्क्रमतोऽतिक्रमत एकाभावेऽपि वा न वस्तुनः । यत् स्वभावाधिगमः, ततः सर्वे नियमितक्रमाच ॥२९५॥ २ अवग्रह ईहाऽपायश्च धारणैव भवन्ति चत्वारि । ३ ईयते नाऽगृहीतं ज्ञायते नानीहितं न चाऽज्ञातम् । धार्यते यद् वस्तु तेन क्रमोऽवग्रहादिस्ख ॥ २९ ॥ ४ क. ग. 'स्वधिग'। PARARIANSPIRIRHARAPAROPPER ॥१७४॥ लकहरु Jan Education Internat For Personal and Private Use Only www.jaineltrary.ory
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy