SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ५८॥ Jain Educations Internation अथ केवलज्ञानस्य सर्वोपरिनिर्देशे कारणमाह अन्ते केवलमुत्तम- जइसामित्तावसाणलाभाओ । एत्थं च मइ सुयाई परौक्खमियरं च पच्चक्खं ॥ ८८ ॥ अन्ते सर्वज्ञानानामुपरि केवलज्ञानमभिहितम् । कुतः १, इत्याह- भावप्रधानत्वाद् निर्देशस्य - उत्तमत्वात् सर्वोत्तमं हि केवलज्ञानम्, अतीतानागत- वर्तमान निः शेषज्ञेय स्वरूपावभासित्वादिति । यथा च मनःपर्यायज्ञानस्य यतिरेव स्वामी, तथा केवलज्ञानस्यापि ततो यतिस्वामित्वसाम्याद् मनःपर्यायज्ञानानन्तरं केवलज्ञानमभिहितम् । तथा समस्तापरज्ञानानामवसान एवास्य लाभादबसान एव निर्देश इति । तदेवमुपन्यासक्रमे समर्थिते सत्याह कश्चित् - नन्वेतानि पञ्च ज्ञानानि किं परोक्षस्वरूपाणि, आहोखित् प्रत्यक्षण ? इति । अत्राह - 'एत्थं चेत्यादि एतेषु पञ्चसु ज्ञानेषु मध्ये मति श्रुते परोक्षे, इतरत् त्ववध्यादि ज्ञानत्रयं प्रत्यक्षम् ॥ इति गाथार्थः ॥ ८८ ॥ तत्र प्रत्यक्षस्य लक्षणमाह जीवो अक्खो अत्थव्वावण- भोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं जं पञ्चक्खं तयं तिविहं ॥ ८९ ॥ अक्षस्तावज्जीव उच्यते । केन हेतुना १, इत्याह- ' अत्थव्वावणेत्यादि ' अर्थव्यापन-भोजनगुणान्वितो येन, तेनाऽक्षो जीवः, इदमुक्तं भवति - 'अशू व्याप्तौ ' अश्नुते ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्युणादिनिपातनादक्षो जीवः, अथवा ' अश भोजने ' अश्नाति | समस्त त्रिभुवनाऽन्तर्वर्तिनो देवलोक समृद्ध्यादीनर्थान् पालयति भुझे वेति निपातनादक्षो जीवः, अश्नातेर्भोजनार्थत्वाद्, भुजेश्व पालनाभ्यवहारार्थत्वादिति भावः । इत्येवमर्थव्यापन- भोजनगुणयुक्तत्वेन जीवस्याऽक्षत्वं सिद्धं भवति । तमक्षं जीवं प्रति साक्षाद्गतमिन्द्रि यनिरपेक्षं वर्तते यज्ज्ञानं तत् प्रत्यक्षम् । तच्चाऽवधि- मनःपर्याय- केवलज्ञानभेदात् त्रिविधं त्रिमकारम्, तस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद् वर्तमानत्वात् || इति गाथार्थः ॥ ८९ ॥ अथ परोक्षज्ञानस्वरूपमाह अक्खस्स पोग्गलकया जं दव्विन्दिय-मणा परा तेणं । तेहिं तो जं नाणं परोक्खमिह तमणुमाणं व ॥९०॥ १ अन्ते केवलमुत्तम-- यतिस्वामित्वाऽवसानलाभात् । अत्र च मति श्रुते परोक्षमितरच प्रत्यक्षम् ॥ ८८ ॥ २ जीवोऽक्षोऽर्थब्यापन- भोजनगुणान्वितो येन । तं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं तकत् त्रिविधम् ॥ ८९ ॥ ३ अक्षस्य पुलकृतानि यद् द्रव्येन्द्रिय-मनांसि पराणि तेन । तैस्तस्माद् यज्ज्ञानं परोक्षमिह तदनुमानमिव ॥ ९० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ ५८ ॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy