________________
SadSM
विशे०
बृहद्वत्तिः ।
भवतु तादौ मति-श्रुतोपादानम् , केवलं पूर्व मतिः, पश्चात्तु श्रुतमित्यत्र कि कारणम् , यावता विपर्ययोऽपि कस्माद् न भवति ?, इत्याह
मेइपुव्वं जेण सुयं तेणाईए मई, विसिट्ठो वा । मइभेओ चेव सुर्य तो मइसमणंतरं भणियं ॥ ८६ ॥
मतिः पूर्व प्रथममस्येति मतिपूर्व येन कारणेन श्रुतज्ञानं, तेन श्रुतस्यादौ मतिः, तीर्थकर-गणधरैरुक्तेति शेषः, न ह्यवग्रहादिरूपे मतिज्ञाने पूर्वमप्रवृत्ते कापि श्रुतप्रवृत्तिरस्तीति भावः । 'विसिहो वा मइभेओ चेव सुयं ति' यदि वा इन्द्रियाऽनिन्द्रियनिमित्तद्वारेणोपजायमानं सर्व मतिज्ञानमेव, केवलं परोपदेशादागमवचनत्वाच्च भवन् विशिष्टः कश्चिद् मतिभेद एव श्रुतं; नान्यत् । ततो मूलभूताया मतेरादौ विन्यासः, तद्भेदरूपं तु श्रुतज्ञानं तत्समनन्तरं भणितमित्यदोषः। 'मइपुव्वं जेण सुर्य' इत्यादिकश्चाऽर्थः पुरंतः प्रपञ्चेन भणिष्यते ॥ इति गाथार्थः ॥८६॥
अथ मतिश्रुतानन्तरमवधेः, तत्समनन्तरं च मनःपर्यायज्ञानस्योपन्यासे कारणमाहकाल-विवजय-सामित्त-लाभसाहम्मओऽवही तत्तो । माणसमित्तो छउमत्थ-विसय-भावादिसामण्णा ॥७॥
ततो मति-श्रुताभ्यामनन्तरमवधिनिर्दिष्टः । कुतः ?, इत्याह- काल-विपर्यय-स्वामित्वलाभसाधर्म्यात् । तत्र नानाजीवापेक्षया, एकजीवापेक्षया च मति-श्रुताभ्यां सहाऽवधेः समानस्थितिकालत्वात् कालसाधर्म्यम् । यथा च मिथ्यात्वोदये मति-श्रुतशाने अज्ञानरूपं विपर्ययं प्रतिपद्येते, तथाऽवधिरपि, इति विपर्ययसाधर्म्यम् । य एव च मति-श्रुतयोः स्वामी स एवाऽवधेरपि, इति स्वामिसाधर्म्यम् । लाभोऽपि कदाचित् कस्यचिदमीषां त्रयाणामपि ज्ञानानां युगपदेव भवति, इति लाभसाधर्म्यम् । 'माणसमित्तो इत्यादि ' इतोऽवधेरनन्तरं मनोविषयत्वाद् मनसि भवं मानसं मनःपर्यायज्ञान युक्तम् । कुतः, इत्याह-छद्मस्थ-विषय-भावादिसामान्यात् । आदिशब्दात् प्रत्यक्षत्वादिसामान्यं गृह्यते, समानस्य भावः सामान्य साम्यं तस्मादित्यर्थः । तत्र यथाऽवधिनानं छद्मस्थस्यैव भवति तथा मन:पर्यायज्ञानमपीति च्छमस्थसाम्यम् । उभयोरपि पुद्गलमात्रविषयत्वाद् विषयसाम्यम् । द्वयोरपि क्षायोपशमिकभाववृत्तित्वाद् भावसाम्यम् । द्वितयस्यापि साक्षाद्दर्शित्वात् प्रत्यक्षत्वसाम्यम् । एवमन्यापि प्रत्यासत्तिरभ्यूद्या ॥ इति गाथार्थः॥ ८७ ॥
१ मतिपूर्व येन श्रुतं तेनादौ मणिपशिष्टों वा । मतिभेदश्चैव श्रुतं तस्माद् मतिसमनन्तरं भाणितम् ॥ ८६ ॥ २ काल-
किमवामित्व-लाभसाधर्थतोऽवधिस्ततः । मानसमितः मास्थ-विषय- भावादिसामान्यात् ॥ ८ ॥