________________
PAPAR
पदार
विशे०
परसव
केवलमिति व्याख्या
पहायमिन्द्रियादिसाहाय्यानपेक्षित्वात् , तद्भावे शेषच्छाअस्थिकज्ञाननिवृत्तेर्वा शुद्धं निर्मलं सकलाप
पर्णज्ञयग्राहित्वात, असाधारणमनन्यसदृशं तादृशाऽपरज्ञानाभावात् , अनन्तम् , अप्रतिपातित्वना
व वर्तते, केवलं च तज्ज्ञानं च केवलज्ञानमिति समासः । आह- नन्वाभिनिबोधिकादीनि ज्ञानवापा इत्यादी सर्वत्र व्युत्पादितानि, ज्ञानशब्दस्तु न कचिदुपात्तः, स कथं लभ्यते ?, इत्याशङ्कयाहआभिनिबोधिक-श्रुतादिभिर्ज्ञानाभिधायकैनामभिः समानाधिकरणः स्वयमेव योजनीयः, स च योजित एवं च तज्ज्ञानं च, श्रुतं च तज्ज्ञानं चेत्यादि । कचिद् वैयधिकरण्यसमासोऽपि संभवतीति प्रायोग्रहणम् । स च मनःपर्यायज्ञान दास अन्यत्राऽपि च यथासंभवं द्रष्टव्यः ।। इति गाथार्थः ।। ८४ ॥
तदेवं ज्ञानपञ्चकस्याप्यभिधानार्थे कथिते आह कश्चित्- नन्वादौ मतिश्रुतोपन्यासः किमर्थः ? इति । अत्राऽचार्यः प्राह
जं सामि-काल-कारण-विसय-परोक्खत्तणेहिं तुल्लाइं । तब्भावे सेसाणि य तेणाईए मइ-सुयाई ॥ ८५ ॥
तेन कारणेनादौ मति-श्रुते निर्दिष्टे । येन, किम् ?, इत्याह- 'जं सामीत्यादि' इति संटङ्कः । मतिशब्दोऽत्राऽऽभिनिवोधिकसमानार्थो द्रष्टव्यः, आभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यप्युच्यते । यद् यस्मात् कारणात् स्वामि--काल-कारण-विषयपरोक्षत्वैस्तुल्ये समानखरूपे मति-श्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः । तत्र स्वामी तावदनयोरेक एव " जत्थ मइनाणं तत्थ सुयनाणं" इत्याद्यागमवचनादिति । कालोऽपि द्विधा- नानाजीवापेक्षया, एकजीवापेक्षया च । स चाऽयं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवावापेक्षया द्वयोरपि सर्वकालमनुच्छेदान्ः एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेकसागरोपमषट्पष्टिस्थितिकत्वेनाऽत्रैवाऽभिधास्यमानत्वादिति । कारणमपीन्द्रिय-मनोलक्षणं वावरणक्षयोपशमस्वरूपं च योरपि समानम् । उभयस्याऽपि सर्वद्रव्यादिविषयत्वाद् विषयतुल्यता । परनिमित्तत्वाञ्च परोक्षत्वसमता। ननु यद्येवमनयोः परस्परं तुल्यता, तकत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् , इत्याह-'तब्भावे इत्यादि तद्भावे मति-श्रुतज्ञानसद्भाव एव शेषाण्यवध्यादीनि ज्ञानान्यवाप्यन्ते; नान्यथा, न हि स कश्चित् | प्राणी भूतपूर्वः, अस्ति, भविष्यति वा, यो मति-श्रुतज्ञाने अनासाद्य प्रथममेवाऽवध्यादीनि शेषज्ञानानि प्राप्तवान् , प्राप्नोति, प्राप्स्यति वेति भावः । ततस्तदवाप्तौ शेषज्ञानाध्याप्तेश्चादौ मति-श्रुतोपन्यासः।। इति गाथार्थः ।। ८५॥
१ यत् स्वामि-काल-कारण-विषय--परोक्षस्वस्तुल्यानि । तद्भावे शेषाणि च तेनाऽऽदौ मति-श्रुते ॥ ५ ॥
HII ५६
CONSTARA
Jan Education Interat
For Personal and Private Use Only
www.jainelibrary.org