________________
5
विशे०
हत्थम्मि मुहुत्तन्तो दिवसंतो गाउयम्मि बोधव्वे " इत्यादि ।। तस्मादनया परस्परोपनिबन्धलक्षणया मर्यादया यतो जीवस्तेनाऽवधिना द्रव्यादिकं 'मुणति' (जानाति ), ततोऽवधिरप्युपचा- बृहत्तिः । राद् मर्यादति भावः । अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम् , इति प्रक्रमलब्धेन ज्ञानशब्दन समासः ॥ इति गाथार्थः ।। ८२ ॥
अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाह
पेजवणं पजयणं पज्जाओ वा मणम्मि मणसो वा । तस्स व पज्जायादिन्नाणं मणपजैवं नाणं ॥ ८३ ॥
'पज्जवणं ति' 'अव गत्यादिषु' इति वचनादवनं गमनं वेदनमित्यवः, परिः सर्वतोभावे, पर्यवनं समन्तात् परिच्छेदन पर्यवः ।। काऽयम् ?, इत्याह-'मणम्मि मणसो व त्ति' मनसि मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्यवो मनःपर्यवः, स चासौ ज्ञानं च मनःपर्यवज्ञानम् । अथवा 'पज्जयणं ति' 'अय वय मय'- इत्यादिदण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतोभावे, पर्ययनं सर्वतः परिच्छेदनं पर्ययः । क्व पुनरसौ ?, इत्याह-'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राद्यस्य संबन्धी पर्ययो मनःपर्ययः स चासौ ज्ञानं च मनःपर्ययज्ञानम् । 'पज्जाओ व त्ति' अथवा 'इण् गतौ' अयनं, आयः, लाभः, प्राप्तिरिति पर्यायाः, परिस्तथैव, समन्तादायः पर्यायः । क्व ?, इत्याह- 'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राह्यस्य पर्यायो मनःपर्यायः, स चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं तावज्ज्ञानशब्देन सह सामानाधिकरण्यमङ्गीकृत्योक्तम् ।।
अथ वैयधिकरण्यमङ्गीकृत्याह- 'तस्स वेत्यादि' वाशब्दः पक्षान्तरमूचकः, तस्येति मनसः, पर्यायाः, पर्यवाः, पर्ययाः, धर्मा इत्यनान्तरमिति आदिशब्दात् पर्यव-पर्ययपरिग्रहः, ततश्चायमर्थः- अथवा तस्य मनसो ग्राह्यस्य संबन्धिनो बाह्यवस्तुचिन्तनानुगुणा ये पर्यायाः, पर्यवाः, पर्ययास्तेषां तेषु वा 'इदमित्थंभूतमनेन चिन्तितम्' इत्येवंरूपं ज्ञानं मनःपर्यायज्ञानं, मनःपर्यवज्ञानं, मनःपूर्णा चेति ज्ञानशब्देन सह व्यधिकरणः समासः। अत एव “ पायं च नाणसद्दो नामसमाणाहिगरणोऽयं " इत्यत्र साम ॥ इति गाथार्थः ॥८३॥
अथ केवलज्ञानविषयं शब्दार्थमाह
केवलमेगं सुद्धं सगलमसाहारणं अणतं १ हस्ते मुहूर्तान्तर्दिवसान्तर्गत
तस्य या पर्यायाविज्ञानं मनःपर्यवं ज्ञानम् ॥१३॥ ३ ख ग 'दि ना .
सालमसाधारणमनन्तं च । प्रायश्च नामशब्दो नामसमानाधिकरणीऽयम् ॥४॥
समासससस
ऽथ ॥ ८४ ॥
SHRA
From
Jan Edutain
For Personal and Private Use Only