SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ५४॥ aaaaaaaaaa 58raharatacolor तओ तम्मि' इत्यादि व्युत्पत्त्यन्तरमस्ति, ततोऽपि कारणात् तदाभिनिवोधिकमुच्यत इत्यर्थः । नन्वात्म-क्षयोपशमयोराभिनियोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं समानाधिकरणता स्यात् ? । सत्यम् , किन्तु ज्ञानस्याऽऽत्माश्रयत्वात् , क्षयोपशमस्य च ज्ञानकारणत्वादुपचारतोत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वतते, ततश्चाऽऽभिनिवाधिकं च तज्ज्ञानं चाभिनिवोधिकज्ञानमिति समानाधिकरणसमास इत्यदोषः॥ अथ श्रुतव्युत्पत्तिमाह- 'तं तेणेत्यादि ' श्रूयत आत्मना तदिति श्रुतं शब्दः, अथवा श्रूयतेऽनेन श्रुतज्ञानावरणक्षयोपशमेन, श्रूयते तस्मात् क्षयोपशमात् , श्रूयते तस्मिन् क्षयोपशमे सतीति श्रुतं क्षयोपशमः । 'सुणेइ सो व त्तिति शृणोतीति श्रुतम् , असावात्मेति वा व्युत्पत्तिरित्यर्थः । 'सुर्य तेणेति' येनैवं व्युत्पत्तिस्तेन कारणेन श्रुतमुच्यत इत्यर्थः । इह च शब्दस्य श्रुतज्ञानकारणत्वात् । क्षयोपशमस्य तद्धेतुत्वादात्मनश्च कथञ्चित् तदव्यतिरेकादुपचारतः श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् ।। इति गाथार्थः ।। ८१॥ अथाऽवधेयुत्पादनार्थमाह तणाव हीयए तम्मि वाऽवहाणं तओऽवही सोय मज्जाया। जं तीए दव्वाइ परोप्परं मुणइ तओऽवहित्ति॥८२॥ ततः कारणादवधिरित्युच्यते । यतः किम् ?, इत्याह- 'तेणाव हीयए त्ति' अवशब्दस्याऽव्ययत्वेनाऽनेकार्थत्वादधोधो विस्तृतं धीयते परिच्छिद्यते रूपि वस्तु तेन ज्ञानेनेत्यवधिः, अथवा अव-मर्यादया एतावत्क्षेत्रं पश्यन् , एतावन्ति द्रव्याणि, एतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते रूपि वस्तु तेनेत्यवधिः। 'तम्मि व त्ति' अथवा अवशब्दस्यार्थद्वयं तथैवाऽवधीयते जीवेन तस्मिन् सति वस्त्वित्यवधिः, अकारस्य लुप्तस्याऽदर्शनात् 'अवहाणं' ति वा शब्दोऽनुवर्तते; ततश्चाऽथवाऽवधानमवधिः साक्षादर्थपरिच्छेदनमित्यर्थः, अथवाऽवधीयते तस्माज्जीवेन साक्षाद् वस्त्वित्यवधिरित्युपलक्षणव्याख्यानात् खयमेव द्रष्टव्यम् । 'सो यमज्जायत्ति' स चोक्तस्वरूपोऽवधिर्मर्यादयाऽर्थपरिच्छेदने प्रवर्तमानत्वादुपचारतो मर्यादा । एतदेवाह-'जं तीए इत्यादि'पुंलिङ्गोऽप्यवधिशब्दः प्राकृतत्वात् स्त्रीत्वेन निर्दिष्टः, ततश्च यद् यस्मात् कारणात् तेनाऽनन्तरोक्तेनाऽवधिना जीको द्रव्यादि 'मुणति ' जानाति । कथंभूतं । सत् , इत्याह- परस्परं नियामितमिति शेषः । वक्ष्यति च "अंगुलमावलिआणं भागमसंखेज दोसु संखेज्जा । अंगुलमावलिअन्तो आवलिआ अंगुलपुहत्तं" ॥१॥ , तेनाऽव धीयते तस्मिन् वाऽवधानं ततोऽवधिः स च मर्यादा । यत् तेन द्रव्यादि परस्परं जानाति ततोऽवधिः ॥ ८२ ॥ २ अलावलिकयोभांगमसंख्येयं दूयोः संख्येयौ । अङ्गुलाबलिकान्तरावलिका अगुलपृषवम् ॥1॥ ॥ ५४॥ For Pesona Pe User
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy