________________
Boo
विशे०
तत्राऽभिनियोधिकज्ञानशब्दार्थ दर्शयत्राह
अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सोचेवाऽऽभिणिबोहिअमहव जहाजोगमाउज ८०॥ बृहद्वा
बोधनं बोधः, 'ऋ गतौ' अर्यते गम्यते ज्ञायत इत्यर्थः, तस्याभिमुखस्तद्ग्रहणप्रवणः अर्थवलाऽऽयातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः, अयमभिशब्दस्याऽर्थो दर्शितः, एवंभूतश्च बोधः क्षयोपशमाद्यपाटवेऽनिश्चयात्मकोऽपि स्यात् , अतो नियतो निश्चित इति निशब्देन विशिष्यते-रसाद्यपोहेन 'रूपमेवेदं' इत्यवधारणात्मक इत्यर्थः । उक्तं च " एवमवग्रहोऽपि निश्चितमवगृह्णाति, कार्यत उपलब्धेः" अन्यथाऽवग्रहकार्यभूतोभायोऽपि निश्चयात्मको न स्यादिति भावः । आह- ननु नियतोऽर्थाभिमुख एव भवति, ततो नियतत्वविशेषणमेवाऽस्तु, किमाभिमुख्यविशेषणेन ? । तदयुक्तम् , द्विचन्द्रज्ञानस्य तैमिरिक प्रति नियतत्वे सत्यप्याभिमुख्याभावादिति । एवं च सति अर्थाभिमुखो नियतो यो बोधः स तीर्थकर-गणधरादीनामभिनिबोधो मतोऽभिप्रेतः। 'सो चेवाभिणिबोहियमिति' स एवाभि| निबोध एवाऽऽभिनिबोधिकम् ,विनयादिपाठादभिनिबोधशब्दस्य"विनयादिभ्यष्ठक्"पा०-५।४।३४]इत्यनेन स्वार्थ एव ठक्प्रत्ययः; यथा विनय एव वैनयिकमिति । 'अहव जहाजोगमाउजं ति' अथवा नेह स्वार्थिकप्रत्ययो विधीयते, किन्तु यथायोगं यथासंबन्धमायोजनीयंघटमानसंबन्धानुसारेण स्वयमेव वक्तव्यमित्यर्थः, तद्यथा- अर्थाभिमुखे नियते बोधे भवमाभिनिबोधिकम् , तेन वा निवृत्तं, तन्मयं वा, तत्मयोजनं वाऽऽभिनिबोधिकम् , तच्च तज्ज्ञानं चाऽऽभिनिवाधिकज्ञानम् ।। इति गाथार्थः ॥ ८॥
तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम् । अथवा ज्ञानम् , क्षयोपशमः, आत्मा वा तद्वाच्य इति दर्शयन्नाह
ततेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा तं । तं तेण तओ तम्मि व सुणेइ सो वा सुअंतेणं ॥८॥
'तं ति' आभिमुख्येन निश्चितत्वेनाऽवबुध्यते संवेदयते आत्मा तदित्यभिनिबोधोऽवग्रहादिज्ञानं, स एवाऽऽभिनिबोधिकम् , अथवा आत्मा तेन प्रस्तुतज्ञानेन, तदावरणक्षयोपशमेन वा करणभूतेन घटादि वस्त्वभिनिवुध्यते, तस्माद् वा प्रकृतज्ञानात् , क्षयोपशमाद्वाभिनिबुध्यते तस्मिन् वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनिबुध्यतेऽवगच्छतीत्यभिनिबोधो ज्ञान, क्षयोपशमो वा । 'सो वाऽभिणिबुज्झए त्ति' अथवाऽभिनिबुध्यते वस्त्वभिगच्छतीत्यभिनिबोधः । असावात्मैव, ज्ञान-ज्ञानिनोः कथञ्चिदव्यतिरेकादिति, स एवाऽऽभिनिबोधिकम् । 'तओ वा तमिति' न केवलं ' अत्याभिमुहो नियओ' इत्यादिव्युत्पत्त्याऽऽभिनिबोधिकमुक्तम्। किन्तु यतः 'तं तेण ॥५३॥
१ अर्थाभिमुखो नियतो बोधो यः स मतोऽभिनिबोधः । स चवाभिनिबोधिकमथवा यथायोगमायोज्यम् ॥ ८॥ २ तत् तेन ततस्तस्मिन् वा स वाऽभिनिबुध्यते ततो वा तत् । तत् तेन ततस्तम्मिन् वा शृणोति स वा श्रुतं तेन ॥ १ ॥ ३ गाथा ८.।
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.org