SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ५२ ॥ Jain Educationa International मङ्गलमहवा नन्दी चव्विहा मङ्गलं च सा नेया । दव्वे तूरसमुदओ भावम्मि य पञ्च नाणाई ॥७८॥ सूत्रस्य सूचकत्वाद् नोआगमतो भावमलङ्गस्यैव च प्रस्तुतत्वाद् मङ्गलशब्देनेह नोआगमतो भावमङ्गलमिति द्रष्टव्यम् । अथवाशब्दस्तु पूर्वोक्तपक्षत्रयापेक्षया विकल्पार्थः, ततश्चायमर्थ:- यदि वा नोआगमतो भावमङ्गलमन्यद् द्रष्टव्यम् । किं तत् ?, इत्याह- 'नंदी' नन्दनं नन्दी, नन्दन्ति समृद्धिमवाप्नुवन्ति भव्यप्राणिनोऽनयेति वा नन्दी, इयं च सूत्रे सामान्योक्तावपि व्याख्यानतो विशेषप्रतिपत्तेरिह ज्ञानपञ्चकरूपा गृह्यते । सामान्यरूपेण तु चिन्त्यमानाऽसौ मङ्गलवद् नामादिचतुर्विधा भवति । एतदेवाह - 'चउब्विहेत्यादि ' तत्र 'नन्दी' इति यत् कस्यचिद् नाम क्रियते सा नामनन्दी | अक्षादिषु स्थापिता स्थापनानन्दी | द्रव्यनन्दी तुद्वविधा - आगमतः, नोआगमतश्च । तत्राssगमतो नन्दीपदार्थज्ञोऽनुपयुक्तः, नोआगमतस्तु ज्ञ भव्यशरीरोभयव्यतिरिक्ता द्रव्यनन्दी द्वादशप्रकारस्तूर्यसमुदयः, तद्यथा— " भा-मुगुन्द-मद्दल कर्डब-झल्लरि-हुडुक-कंसाला । काहल- तलिमा वंसो संखो पणवो य बारसमो " ॥ १ ॥ इह च ' दव्वे तूरसमुदओ ' इत्यनेन ज्ञ भव्यशरीरव्यतिरिक्ता द्रव्यनन्दी सूत्रेऽपि दर्शिता, नामनन्द्यादिस्वरूपं तु पूर्वोक्तनाममङ्गलाद्यनुसारेण सुज्ञेयत्वाद् नोक्तमिति । भावनन्द्यपि द्विधा - आगमतः, नोआगमतश्च । आगमतो नन्दिपदार्थज्ञस्तत्रोपयुक्तः । नोआगमतस्त्वाह-' भावम्मियेत्यादि ' भावे भावनन्यां विचार्यमाणायां पुनः 'नोआगमतो भावनन्दी ' इति शेषः । का पुनरियम् १, इत्याहपञ्च ज्ञानानि आगमस्य ज्ञानपञ्चकैकदेशत्वात् नोशब्दस्य चेहाप्येकदेशवाचित्वादिति भावः । इयमेव चेह नोआगमतो भावमङ्गलत्वेन प्रस्तुतगाथादौ निर्दिष्टा || इति गाथार्थः ॥ ७८ ॥ कानि पुनस्तानि पञ्च ज्ञानानि १, इत्याह आभिणिबोहियनाणं सुयनाणं चेत्र ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ ७९ ॥ आभिनिबोधिकज्ञानम्, श्रुतज्ञानम्, अवधिज्ञानम्, मन:पर्ययज्ञानम्, केवलज्ञानमिति पञ्च ज्ञानानि । एतानि च भाष्यकारो विस्तरतः स्वयमेव व्याख्यास्यति ॥ ७९ ॥ १ मङ्गलमथवा नन्दी चतुर्विधा मङ्गलं च सा ज्ञेया । द्रव्ये तूर्यसमुदयो भावे च पञ्च ज्ञानानि ॥ ७८ ॥ २ भम्भा मुकुन्द मर्दल-कदम्ब-शहरी-हुडुक-कंसालाः । काहल-तलिमौ वंशः सङ्घः पणवध द्वादशः ॥ १ ॥ ३ भाभिनियोधिकशानं श्रुतज्ञानं चैवाऽवधिज्ञानं च तथा सनः पर्यवज्ञानं केवलज्ञानं च पञ्चमकम् ॥ ७९ ॥ For Personal and Private Use Only बृहद्वतिः । ।। ५२ ।। www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy