SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ विशे० वृहद्वत्तिः । ॥५१॥ सहुज्जुसुया पज्जायवायगा भावसंगहं बेति । उवरिमया विवरीआ भावं भिंदंति तो निययं ॥ ७७ ॥ यद् यस्मात् कारणात् संग्रहनयः सामान्यग्राही सामान्यवादी, तेन कारणेन संगृहात्येकत्वेनाऽध्यवस्यति प्रत्येकं त्रितयं नाम-स्थापना-द्रव्यनिक्षेपलक्षणं यानि कानिचिद् नाममङ्गलानि तत् सर्वमप्येकं नाममङ्गलम् , तथा स्थापनामङ्गलान्यशेषाण्यप्येकं स्थापनामङ्गलम् , एवं द्रव्यमङ्गलान्यपरिशिष्टान्यप्येकं द्रव्यमङ्गलमित्यर्थः । व्यवहारनयस्तु येन कारणेन विशेषग्राही, ततो नामादिनिक्षेपान् विशेषयति भेदेनेच्छति-नाममङ्गलानि सर्वाण्यपि पृथग् नाममङ्गलत्वेनेच्छति, एवं स्थापनादिनिक्षेपेष्वपि वाच्यम् । 'सदुज्जुसुयेत्यादि शब्द-र्जुसूत्रनयौ पुनः पर्यायरेकार्थभिन्नाभिधानैर्वस्तु वक्तुं शीलं ययोस्तौ पर्यायवाचिनौ सन्तौ नाम-स्थापना-द्रव्यनिक्षेपपरिहारेणैकस्यैव भावस्य भावनिक्षेपस्य संगृहीतिः संग्रहोऽभिन्नत्वमेकत्वं भावसंग्रहस्तं ब्रूतः प्रतिपादयतः, इदमुक्तं भवति- ऋजुमूत्र-शब्दनयौ पूर्वनयेभ्यो विशुद्धत्वाद् नाम-स्थापना-द्रव्यनिक्षेपं तावद् नेच्छतः, किन्त्वेकमेव भावनिक्षेपमभ्युपगच्छतः, केवलं समभिरूढ-वंभूतनयाऽपेक्षयाऽविशुद्धत्वाद् विभिन्नानेकपर्यायाभिधेयत्वेऽपि भावनिक्षेपस्य संग्रहमेकत्वमेव प्रतिपद्यते, न भिन्नत्वमिति भावः । ततश्चैतन्मतेन यदेव मङ्गलशब्दवाच्यं भावमङ्गल प्रत्यूहोपशमका-निष्टविघातकृद्-विघ्नापहरणादिशब्दानामपि तदेव वाच्यम्, न भिन्नम्, इति तात्पर्यम् । 'उवरिमया विवरीएत्यादि उपरितनौ तु समभिरूलै-वंभूतौ नयौ ऋजुसूत्र-शब्दनयाऽपेक्षया विपरीतौ भिन्नानेकपर्यायाऽभिधेयस्य भावस्यैकत्वं नेच्छतः, किन्तु भिन्नत्वमभ्युपगच्छतः, तथाहि-समभिरूढमतेनाऽन्यदेव मङ्गलशब्दवाच्यं भावमङ्गलम् , अन्यच्च प्रत्येकं प्रत्यूहोपशमकादिपर्यायवाच्यम् । एवम्भूतस्याऽप्येवमेव, केवलमयं पूर्वस्माद् विशुद्धत्वादेकपर्यायाभिधेयमपि भावमङ्गलं भावमङ्गलकार्य कुर्वदेव मन्यते, नाऽन्यदा, यथा धर्मोपकरणान्वितः सम्यक्चारित्रोपयोगे वर्तमानः साधुरिति । तदेवमुजुमूत्र-शब्दनयाऽभ्युपगमापेक्षया विपरीताभ्युपगमपरत्वाद् विपरीतावेतौ । 'तो त्ति' तस्माद् भावं भावमङ्गलादिकमर्थं नियतं निश्चितं पर्यायभेदा भिन्तः-भेदेनेच्छतइत्यर्थः, यदि हि पर्यायभेदेऽपि वस्तुनो न भेदः, तर्हि घट-पटादीनामपि स न स्यादित्यादियुक्तः पर्यायभेदेन भिन्नमेव भावमङ्गलमभ्युप| गच्छत इति भावः ॥ इति गाथाद्वयार्थः ॥ ७६ ॥७७॥ तदेवमवसितं प्रासङ्गिकम् । प्रकृतमुच्यते, तच्चेदम्-पूर्व नोआगमतो भावमङ्गलं नोशब्दस्य सर्वनिषेधवचनस्वे विशुद्धः क्षायिकादिर्भाव उक्तः, मिश्रवचनत्वे तस्य ज्ञान-दर्शन-चारित्रोपयोगः, एकदेशवचने पुनस्तस्याऽर्हनमस्कारादिज्ञान-क्रियाविमिश्रपरिणामः प्रोक्तः । सांप्रतं नोशब्दस्यैकदेशवाचित्वे नोआगमतो भावमङ्गलं ज्ञानपञ्चकरूपा नन्द्यपि भवतीति दर्शयन्नाह पाब्द-सूत्रौ पर्यायवाचकौ भावसंग्रहं ब्रूतः । उपरितनौ विपरीतौ भावं भिन्तस्तस्माद् नियतम् ॥ ७ ॥ ॥५१॥ For Dod ony
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy