SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । ॥५०॥ करकामा ___" नत्थि नएहिं बिहूर्ण सुत्तं अत्थो अजिणमए किंचि । आसज्ज उ सोआर नएण य विसारओ बूया" इति वचनाजिनमते सर्व वस्तु प्रायो नयैर्विचार्यते, अतो नाम-स्थापनादीनपि प्रस्तुतान् नयैर्विचारयन्नाह नामाइतियं दव्वट्ठियस्स भावो य पजवनयस्स । संगह--व्यवहारा पढमगरस सेसा य इयररस ॥ ७५ ॥ एतेषु नामादिषु मध्ये नाम स्थापना-द्रव्यनिक्षेपत्रयं द्रव्यास्तिकनयस्यैवाऽभिमतं न पर्यायास्तिकस्य, नामादिनिक्षेपत्रयस्य विवक्षितभावशून्यत्वात् । पर्यायास्तिकस्य तु भावग्राहित्वादिति । 'भावो' भावनिक्षेपः पुनः पर्यायास्तिकनयस्याऽभिमतो नेतरस्य, तस्य द्रव्यमात्रग्राहित्वेन भावाऽनवलम्बित्वादिति । आह-ननु नया नैगमादयः प्रसिद्धाः, ततस्तैरेवाऽयं विचारो युज्यते, अथ तेऽत्रैव द्रव्यपर्यायास्तिकनयद्येऽन्तर्भवन्ति, तर्युच्यतां कस्य कस्मिन्नन्तर्भावः ?, इत्याशक्याह- 'संगहेत्यादि ' नैगमस्ताव सामान्यग्राही संग्रहेऽन्तर्भवति, विशेषग्राही तु व्यवहारे संग्रहव्यवहारौ तु प्रस्तुतनयद्वयस्य मध्ये प्रथमकस्य द्रव्यास्तिकस्य मतमभ्युपगच्छतः- द्रव्यास्तिकमतेऽन्तर्भवत इति तात्पर्यम् । शेषास्तु ऋजुमूत्रादय इतरस्य द्वितीयस्य पर्यायास्तिकस्य मतमभ्युपगच्छन्तोऽत्रैवान्तर्भवन्तीति हृदयम् । आचार्यसिद्धसेनमतेन चेह ऋजुसूत्रस्य पर्यायास्तिकेऽन्तर्भावो दर्शितः, सिद्धान्ताभिप्रायेण तु संग्रह व्यवहारवद् ऋजुसूत्रस्याऽपि द्रव्यास्तिक एवाऽन्तर्भावो द्रष्टव्यः, तथा चोक्तं सूत्रे “उजुसुयस्स एगे अणुवउत्ते आगमओ एगं दव्वावस्सयं पुहत्तं नेच्छइ" इति । तदनेनाऽस्य द्रव्यवादित्वं दर्शितम् , इति कथं पर्यायास्तिकेऽन्तर्भावः स्यात १ ॥ इति गाथार्थः ॥ ७५॥ आह-ननु संग्रहादिनया नामनिक्षेपं सर्वमध्येकत्वेनेच्छन्ति; भेदेन वा ?, एवं स्थापनादिनिक्षेपेष्वपि प्रत्येक वक्तव्यम् , इत्याशङ्कयाह जं सामन्नग्गाही संगिण्हइ तेण संगहो निययं । जेण विसेसग्गाही ववहारो तो विसेसेइ ॥ ७६ ॥ १ पृष्ठ २६ । २ नामावित्रिक द्रव्यास्तिकस्य भावश्च पर्यवनयस्य । संग्रह-व्यवहारी प्रथमकस्य शेषाश्चेतरस्थ ॥ ७५ ॥ ३ ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एकं व्यावश्यकं पृथक्तवं नेच्छति । अनुयोगद्वारसूत्रस्थोऽयं पाठः, तट्टीका यम्- " उजुसुयस्सेत्यादि-जु अतीता-मागत-परकीयपरिहारेण प्राजलं वस्तु सूत्रवत्यभ्युपगच्छति ऋजुसूत्रः, अयं हि वर्तमानकालभाब्येव वस्तु अभ्युपगच्छति, नाऽतीतम् , विनष्टत्वात् । नाऽप्यनागतम् , अनुत्पनत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात् , स्वधनवत् ; परकीयं तु नेच्छति स्वकार्याऽप्रसाधकत्वात् , परधनवत् । तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एक द्रव्यावश्यकमिति । 'पुहत्तं नेच्छह ति' अतीता-ऽनागतभेदतः परकीयभेदतश्च पृभक्तवं पार्थक्य ने छत्यसौ, किं तर्हि ? वर्तमानकालीनं स्वकमेव चाऽभ्युपैति, तचैकमेवेति"। - यत् सामान्यग्राही संगृह्णाति तेन संग्रहो नियतम् । येन विशेषमाही व्यवहारस्तस्माद् विशेषयति ॥ ७६ ॥ ५ For som e Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy