________________
Ca
विशे०
॥४९॥
29
मयोदयापलब्धरात्रिन्दिवादिवस्तूनां बाधकसंभावनयाऽन्यथात्वकल्पनासंगतिमावहति । न चेहापि दर्शना दर्शने विहायाऽन्यद् निश्चायकं प्रमाणमुपलभामहे । तस्मादेकत्वपरिणत्यापननामादिभेदज्वेव शब्दादिपरिणतिदर्शनात् सर्वं चतुष्पर्यायं वस्त्विति स्थितम् ॥ इति गाथार्थः ॥ ७३॥
आह- ननु यदि नामादिचतुष्पर्यायं सर्व वस्तु, तर्हि किं नामादीनां भेदो नास्त्येव ?, इत्याह
इय सव्वभेअसंघायकारिणो भिन्नलक्खणा एते । उप्पायर्या इति ये पिव धम्मा पइवत्थुमाउज्जा ॥ ७४ ॥
इत्येवं ये पूर्व भिन्नलक्षणा भिन्नस्वरूपा धर्मा नामादयः मोक्तास्ते प्रतिवस्त्वायोज्या आयोजनीया इति संबन्धः । कथंभूताः सन्तः १, इत्याह- भेदश्च संघातच भेदसंघाती, सर्वस्य स्वाश्रयभूतवस्तुनो भेदसंघातौ तौ कर्तुं शीलं येषां ते सर्वभेदसंघातकारिणो निजाश्रयस्य सर्वस्याऽपि वस्तुनः कथश्चिद् भेदकारिणः, कथञ्चित्वभेदकारिण इत्यर्थः, तथाहि- केनचिदिन्द्र इत्युच्चरितेऽन्यः पाहकिमनेन नामेन्द्रो विवक्षितः, आहोस्वित् स्थापनेन्द्रः, द्रव्येन्द्रः, भावेन्द्रो वा । नामेन्द्रोऽपि द्रव्यतः किं गोपालदारकः, हालिकदारका, क्षत्रियदारकः, ब्राह्मणदारकः, वैश्यदारकः, शूद्रदारको वा ? इत्यादि । तथा क्षेत्रतोऽपि नामेन्द्रः किं भारतः, ऐरवतः, महाविदेहजो वा? इत्यादि । कालतोऽपि किमतीतकोलसंभवी, वर्तमानकालभावी, भविष्यन् वा ? इत्यादि अतीतकालभाव्यपि किमितोऽनन्ततमसमयभावी, असंख्याततमसमयभावी, संख्याततमसमयभावी वा ? इत्यादि । भावतोऽपि किं कृष्णवर्णः, गौरवर्णः, दीर्घः, मन्थरो वा ? इत्यादि । तदेवमेकोऽपि नामेन्द्रस्याऽऽश्रयभूतोऽर्थस्तावद् द्रव्य-क्षेत्र-काल-भावभेदाधिष्ठितोऽनन्तभेदत्वं प्रतिपद्यते । तथा स्थापना-द्रव्य-भावाश्रय स्याऽप्युक्तानुसारतः प्रत्येकमनन्तभेदत्वमनुसरणीयम् । इत्येवमेते नामादयो भेदकारिणः । अभेदकारिणस्तहि कथम् ? इति चेत् । उच्यते- यदैकस्मिन्नपि वस्तुनि नामादयश्चत्वारोऽपि प्रतीयन्ते तदाऽभेदविधायिनः, तथाहि- एकस्मिन्नपि शचीपत्यादौ 'इन्द्र' इति नाम, तदाकारस्तु स्थापना, उत्तरावस्थाकारणत्वं तु द्रव्यत्वम् , दिव्यरूप-संपत्ति-कुलिशधारण-परमैश्वर्यादिसंपन्नत्वं तु भाव इति चतुटयमपि प्रतीयते । तस्मादेवं सर्वस्य स्वाऽऽश्रयभूतस्य वस्तुनो भेद-संघातकारिणो भिन्नलक्षणा एते नामादयो धर्मा उत्पाद-व्यय-धौव्यत्रिकवत् प्रतिवस्तु आयोजनीयाः परस्पराऽविनाभाविनः प्रतिवस्तु द्रष्टव्या इति तात्पर्यम् ।। इति गाथार्थः ॥ ७४॥
B8888888560020652HBT
A-AU४९
1 अन्वयव्यतिरेकापरपर्यायी प्रत्यक्षानुपलम्भावित्यर्थः । ख 'पि दर्शनं विहाय'। २ इति सर्वभेदसंघातकारिणो भिनलक्षणा एते । उत्पादा इति यदिव धर्मा प्रतिवस्त्वायोज्या: 011. 'कारभावी वर्तमानकाळसंभवी' ।
For Pesonal and Private Use Only