SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 6808oleRSS विशे० ॥४८॥ तदेवं नामादिनयाना परस्परविप्रतिपत्तिमुपदश्योपसंहारपूर्वकं मिथ्येतरभाव दर्शयितुमाहएवं विवयंति नया मिच्छाभिनिवेसओ परोप्परओ । इयमिह सब्वनयमयं जिणमयमणवज्जमच्चंत ॥७२॥ एवमुक्तप्रकारेण परस्परतो मिथ्याभिनिवेशाद् विवदन्ते विवादं कुर्वन्ति नामनयादयो नयाः। ततश्च मिथ्यादृष्टय एते, असंपूर्णाथेग्राहित्वात् , गजगात्रभित्रदेशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवत् । यदि नामते मिथ्यादृष्टयः, तर्हि निर्मियं किम् ?, इत्याह- इदमिहैव लोके वर्तमानमनुभवप्रत्यक्षसिद्धं जिनमतं जैनाभ्युपगमरूपम् । कथंभूतम् १, सर्वनयमयं निःशेषनयसमूहाभ्युपगमनिवृत्तम् , अत्यन्तमनवयं नामादिनयपरस्परोद्भाविताऽविद्यमाननिःशेषदोषं, संपूर्णार्थग्राहित्वात् , चक्षुष्मता समन्तात् समस्तहस्तिशरीरदर्शनोल्लापवत् ॥ इति गाथार्थः ॥ ७२ ॥ तथा च संपूर्णार्थग्रहरूपं जिनमतमेव दर्शयति नौमाइभेअसद्द-त्थ-बुद्धिपरिणामभावओ निययं । जं वत्थुमत्थि लोए चउपज्जायं तयं सव्वं ॥ ३ ॥ घट-पटादिकं यत् किमपि वस्त्वस्ति लोके, तत् सर्व प्रत्येकमेव नियतं निश्चितं चत्वारः पर्याया नामा-ऽऽकार--द्रव्य-भावलक्षणा यत्र तच्चतुष्पर्यायम् न पुनर्यथा नामादिनयाः प्राहुर्यथा-केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा, केवलभावात्मकं वेति भावः । कुतश्चतुष्पर्यायमेव ?, इत्याह-'नामादिभेएत्यादि नामादिभेदष्वेकत्वपरिणतिसंवलितनामा-ऽऽकार-द्रव्य-भावेष्वेवेत्यर्थः, शब्दश्चाऽर्थश्च बुद्धिश्च शब्दा-ऽर्थ बुद्धयस्तासां परिणामस्तस्य भावः सद्भावस्तस्मात् ,नामादिभेदेषु समुदितेष्वेव योऽयं शब्दा-ऽर्थ-बुद्धीनां परिणामसद्भावस्तस्मादेतोः सर्वं चतुष्पर्यायं वस्त्वित्यर्थः । प्रयोगः-यत्र शब्दार्थ चुद्धिपरिणामसद्भावः, तत् सर्वं चतुष्पर्यायम् , चतुष्पर्यायवाभावे शब्दादिपरिणामभावोऽपि न दृष्टः, यथा शशशृङ्गे, तस्माच्छब्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमिति भावः, इदमुक्तं भवति- अन्योऽन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन परिणतिर्दृष्टा, अर्थस्यापि पृथुबुध्नोदरायाकारस्य नामादिचतुष्टयात्मकतयैव परिणामः समुपलब्धः, बुद्धरपि तदाकारग्रहणरूपतया परिणतिस्तदात्मन्येव वस्तुन्यवलोकिता। न चेदं दर्शनं भ्रान्तम् , बाधकाभावात् । नाप्यदृष्टाशङ्कयानिष्टकल्पना युक्तिमती, अतिप्रसङ्गात् । न हि दिनकराऽस्त 1 एवं विवदन्ति मया मिथ्याभिनिवेशतः परस्परतः । इदमिह सर्वनयमयं जिनमतमनवद्यमत्यन्तम् ॥ २ ॥ २ नामादिभेदशाब्दा-ऽर्थ-बुद्धिपरिणामभावतो नियतम् । यद् वस्त्वस्ति लोके चतुष्पर्यायं तत् सर्वम् ॥ ॥ FOE ॥४८॥ Taarohare APPARAPPIPAPASPATH
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy