SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ विशे० बृहद्वत्तिः । ॥४७॥ सारमप्यसौ स्यात् , विशेषाभावात् । तथा च सति स एव घटादेस्तादवस्थ्यप्रसङ्गः । घटाग्रुपमर्दैनाऽभावो जायते, अतो घटादिनिवृत्तिः, इति चेत् । ननु कोऽयमुपमर्दो नाम ? । न तावद् घटादिः, तस्य स्वहेतुत एवोत्पत्तेः । नापि कपालादयः, तद्भावे घटादेस्तादवस्थ्य- प्रसङ्गात् । नापि तुच्छरूपोऽभावः, एवं हि सति घटाद्यभावेन घटाद्यभावो जायत इत्युक्तं स्यात् , न चैतदुच्यमानं हास्यं न जनयति, आत्मनैवाऽत्मभवनानुपपत्तेः । तस्माद् मुद्गरादिसहकारिकारणवैसदृश्याद् विसदृशः कपालादिक्षण उत्पद्यते, घटादिस्तु क्षणिकत्वेन निर्हेतुकः स्वरसत एव निवर्तते, इत्येतावन्मात्रमेव शोभनम् । अतो हेतुव्यापारनिरपेक्षा एव समुत्पन्ना भावाः क्षणिकत्वेन स्वरसतएव विनश्यन्ति, न हेतुव्यापारात्, इति स्थितम् । तस्माजन्म-विनाशयोर्न किश्चित् केनचिदपेक्ष्यते, अपेक्षणीयाभावाच न किञ्चित् कस्यचित् कारणम् । तथा च सति न किञ्चिद् द्रव्यम् , किन्तु पूर्वापराभूताऽपरापरक्षणरूपाः पर्याया एव सन्त इति । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताभयात् , सुगतशास्त्रेषु विस्तरेणोक्तत्वाच ॥ इति गाथार्थः ॥ ७० ॥ __यदपि द्रव्यवादिना 'पिण्डो कारणमिठं पयं व परिणामओ' इत्याद्युक्तम् , तत्राऽस्माभिरप्येतद् वक्तुं शक्यत एवेति । किम् ?, इत्याह SEX BABA पिण्डो कजं पइसमयभावाउ जह दहिं तहा सव्वं । कज्जाभावाउ नत्थि कारणं खरविसाणं व ॥ ७१॥ मृदादिपिण्डः कार्यमेव, न तु कारणम् । कुतः ?, इत्याह- प्रतिसमयमपरापरक्षणरूपेण भावात् , दध्यादिवदिति । प्रतिसमयमपरापरक्षणभवनमसिद्धमिति चेत् । न, वस्तूनां पुराणादिभावाऽन्यथानुपपत्तेः । उक्तं च__ “प्रतिसमयं यदि न भवेदपरापररूपतेह वस्तूनाम् । न स्यात् पुराणभावो न युवत्वं नापि वृद्धत्वम् ॥ १॥ जन्मानन्तरसमये न स्याद् यद्यपररूपताऽर्थानाम् । तर्हि विशेषाभावाद् न शेषकालेऽपि सा युक्ता" ॥ २ ॥ कि पिण्ड एव कार्यम् ? । न, इत्याह- तथा सर्व, यथा पतिसमयं भावात् पिण्डः कार्य तथा सर्वमपि घटपटादिकं वस्तुनिकुरम्बम् , तत एव हेतोः कार्यत्वमपि द्रष्टव्यमित्यर्थः । अनभिमतप्रतिषेधमाह- 'कजाभावाउ इत्यादि' पराभ्युपगतं कारणं कारणाख्यं वस्तु नास्ति । कुतः ? , इत्याह- कार्याभावात् तत्र कार्यत्वाऽभ्युपगमाभावात् प्रतिसमयभवनानभ्युपगमादित्यर्थः । इह यत् प्रतिसमयमपरापररूपेण न भवति तद् वस्तु नास्ति, यथा खरविषाणम् , प्रतिसमयमभवन्तश्चाऽभ्युपगम्यन्ते परेमृत्पिण्डादयः, तस्माद् न सन्तीति भावः ॥ इति गाथाथैः ॥ ७१॥ १ स्वभावात् । २ गाथा ६८ । ३ पिण्डः कार्य प्रतिसमयभावाद् यथा दधि तथा सर्वम् । कार्याभावाद् नास्ति कारणं खरविषाणमिव ॥ १॥ ॥४७॥ For Peso Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy