________________
विशे०
वृहद्वतिः ।
॥४६॥
मृत्पिण्डादिकमपेक्षते । हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् , यदि हि स्वत एव कथमपि निष्पन्नो घटादिः, किं तस्य पश्चाद् मृत्पिण्डाद्यपेक्षया । अथोत्पद्यमानतावस्थायामसौ तमपेक्षते । केयं नामोत्पद्यमानता?। न तावदनिष्पन्नावयवता, स्वयमनिप्पन्नस्य खरविषाणस्येवाऽपेक्षाऽयोगात् । नापि निष्पन्नावयवता, स्वयं निष्पन्नस्य परापेक्षावैयर्थ्यात् । नाप्यनिष्पन्नावयवता, वस्तुनः सांशताप्रसङ्गात् । तत्र चाऽवयविकल्पनादावनेकदोषोपनिपातसंभवात् । किञ्च, सांशतायामपि किमनिष्पन्नोंशः कारणमपेक्षते, निष्पन्नो वा, उभयं वा । न तावदाद्यपक्षद्वयम् , निष्पन्ना-ऽनिष्पन्नयोरपेक्षायाः प्रतिषिद्धत्वात् । उभयपक्षोऽपि न श्रेयान , उभयपक्षोक्तदोपप्रसङ्गात् । तस्माद् मृत्पिण्डाद्युत्तरकालं भवनमेव घटादेस्तदपेक्षा, मृत्पिण्डादेरपि कार्यत्वाभिमताद् घटादेः प्राग्भावित्वमेव कारणत्वम् , न पुनर्घटादिजन्मनि व्याप्रियमाणत्वम् । व्यापारो हि तद्वतो भिन्नः, अभिन्नो वा ?। यदि भिन्नः, तर्हि तस्य निर्व्यापारताप्रसङ्गः । अथाऽभिन्नः, तर्हि व्यापाराऽभावः । कारणब्यापारजन्यं जन्मापि जन्मवतो भिन्नम् , अभिन्नं वा ? | भेदे जन्मवतोऽजन्मप्रसङ्गः । अभेदे तु, जन्माभावः। तस्मात् पूर्वोत्तरकालभावित्वमात्रेणैवाऽयं कार्य-कारणभावो वस्तूनां लोके प्रसिद्धः, न जन्य-जनकभा
वेन । यदपि मृत्पिण्ड-घटादीनां पूर्वोत्तरकालभावित्वम् , तदप्यनादिकालात् तथापत्तक्षणपरम्परारूढम् , न पुनः कस्यचित् केनचिद् निर्व| र्तितम् , इति न कस्यचिद् भावस्य कस्यापि संबन्धिन्यपेक्षा । ततो हेत्वन्तरनिरपेक्ष एव सर्वो भावः समुत्पद्यत इति स्थितम् । विनश्यति तहि कथम् ?, इत्याह-'तयणन्तरमित्यादि' तदनन्तरमुत्पत्तिसमनन्तरमेवाऽपैति विनश्यति भावः । तदपि च विनशनमहेतुकमेव । मुद्गरो. पनिपातादिसव्यपेक्षा एवं घटादयो विनाशमाविशन्तो दृश्यन्ते, न निर्हेतुकाः, इति चेद् । नैवम् , विनाशहेतोरयोगात् , तथाहि- मुद्रादिना विनाशकाले किं घटादिरेव क्रियते, आहोस्वित् कपालादयः, उत तुच्छरूपोऽभावः ? इति त्रयी गतिः। तत्र न तावद् घटादिः, तस्य स्वहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः । नापि कपालादयः, तत्करणे घटादेस्तदवस्थत्वप्रसङ्गात् , न ह्यन्यस्य करणेऽज्यस्य निवृत्तियुक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्यापि निवृत्तिप्रसङ्गात् । नापि तुच्छरूपोऽभावः, खरशृङ्गस्येव नीरूपस्य तस्य कर्तुमशक्यत्वात् , करणे वा घटादेस्तदवस्थताप्रसङ्गात् , अन्यकरणेऽन्यनित्यसंभवात् । घटादिसंबन्धेनाऽभावो विहितस्तेन घटादेर्निवृत्तिः, इति चेत् । न, संबन्धस्यैवाऽनुपपत्तेः, तथाहि- किं पूर्व घटः पश्चादभावः, पश्चाद् वा घटः पूर्वमभावः, समकालं वा घटाभावौ ? इति विकल्पत्रयम् । तत्राऽऽद्यविकल्पद्वयपक्षे संवन्धानुपपत्तिरेव, संवन्धस्य द्विष्ठत्वेन भिन्नकालयोस्तदसंभवात् , अन्यथा भविष्यच्छङ्खचक्रवर्त्यादीनामतीतैः सगरादिभिरपि संबन्धप्राप्तेः । तृतीयविकल्पपक्षेऽपि घटा-ऽभावयोर्यदि क्षणमात्रमपि सहावस्थितिरभ्युपगम्यते, तसिं
महामहास
४६॥
१ख, 'वयवविक' । २ क. 'अथ चाऽभिन्नः'।
For Don Peny
www.jainelibrary.org