________________
SSSS
2GBANA
विशे०
बृहद्वचिः ।
॥४५॥
नैवम् , आविर्भाव-तिरोभावमात्र एव कार्योपचारात् , उपचारस्य चाऽवस्तुत्वात् । इति स्वपक्षं व्यवस्थाप्य परपक्षं दूषयितुमाह-'आगारेत्यादि' द्रव्यमानं विहाय स्थापनादिनयैर्यदाऽऽकारादिकमभ्युपगम्यते, तत् सर्वमवस्तु । कुतः, इत्याह-निष्कारणत्वात् कारणमात्र- रूपतयाऽनभ्युपगमात् , तदभ्युपगमे त्वस्मत्पक्षवर्तित्वप्रसङ्गात् , इह यत् कारणं न भवति तद् न वस्तु, यथा गगनकुसुमम् , अकारणं च परैरभ्युपगम्यते सर्वमाकारादिकम् , अतोऽवस्तु ।। इति गाथार्थः ॥ ६८॥
तदेवं द्रव्यनयेन स्वपक्षे व्यवस्थापिते भावनयः पाह
भांवत्थंतरभूअं किं दव्वं नाम भाव एवायं । भवनं पइक्खणं चिय भावावत्ती विवत्तीय ॥ ६९ ॥
भावेभ्यः पर्यायेभ्योऽर्थान्तरभूतं भिन्नं किं नाम द्रव्यम् , येनोच्यते-'देवपरिणाममित्तमित्यादिननु भाव एवाऽयं यदिदं दृश्यते त्रिभुवनेऽपि वस्तुनिकुरम्बमिति । यदि हि किश्चिदनादिकालीनमवस्थितं सद् वस्तु वस्त्वन्तरारम्भे व्याप्रियेत तदा न्याय्या स्यादियं कल्पना, यावता प्रतिक्षणं भवनमेवाऽनुभूयते । किमुक्तं भवति', इत्याह-भावस्यैकस्य पर्यायस्याऽऽपत्तिरुद्भूतिः, अपरस्य तु विपत्तिविनाशः।
___"निहाणगया भग्गा पुञ्जो नत्थि अणागए । निवुया नेय चिट्ठति आरम्गे सरसवोवमा" ॥ १ ॥ इति वचनात् पूर्वस्य क्षणस्य निवृत्तिः, अपरस्य तूत्पत्तिरित्यर्थः ॥ इति गाथार्थः ॥ ६९ ॥
आह-ननु ये भावस्याऽऽपत्ति-विपत्ती पोच्येते ते तावद्धत्वन्तरमपेक्ष्य भवतः, यच्च हेत्वन्तरमपेक्षते तदेवाऽवस्थितं कारणं, देव द्रव्यम् , अतो 'भोवत्यंतरभूअं किं दव्वं ' इत्यादिनाऽयुक्तमेव द्रव्यमपाक्रियते, इत्याशक्याह
ने य भावो भावन्तरमवेक्खए किन्तु हेउनिरवेक्खं । उपपज्जइ तयणन्तरमवेइ तमहेउ चेव ॥ ७ ॥
न च भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते, किन्तु निरपेक्ष एवोत्पद्यते । अपेक्षा हि विद्यमानस्यैव भवति । न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चाऽपेक्षायां खरविषाणस्यापि तथाभावप्रसङ्गात् । यदि चो| त्पत्तिक्षणात प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपक्षया', तस्य स्वत एव विद्यमानत्वात् । अयोत्पन्नः सन् घटादिः पश्चाद्
, भावार्थान्तरभूतं किं व्यं नाम, भाव एवाऽयम् । भवनं प्रतिक्षणमेव भावापत्तिर्विपत्तिश्च ॥ १९ ॥२ गाथा ६६ । ३न निधानगता भग्ना पुजओ नास्वनागते । निर्वृता नैव तिष्ठन्ति आराने सर्पपोपमाः ॥1॥ ४ गाथा ६९। ५न च भावो भावान्तरमपेक्षते किन्तु हेतुनिरपेक्षम् । उत्पद्यते तदनन्तरमपति तदहेतुकं चैव ॥ ५॥
||४५॥
Jan Educcions international
For Personal and Private Use Only
N
um.jaineltrary.org