SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ ४४ ॥ Jain Education Internati ननु कथमुत्पादादिरहितमुच्यते, यावता सर्पादिके द्रव्ये उत्फण-विफणादयः पर्याया उत्पद्यमाना निवर्तमानाश्च प्रत्यक्षेणैव दृश्यन्ते १, इत्याह ओविब्भाव-तिरोभावमेन्तपरिणामकारणमचिन्तं । निच्चं बहुरूवं पि य नडो व्व वेसंतरावन्नो ॥ ६७ ॥ आविर्भावश्च तिरोभावश्च तावेव तन्मात्रं तदेव परिणामस्तस्य कारणं द्रव्यम्, यथा सर्प उत्फण-विफणावस्थयोरिति न ह्यत्रापूर्व किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाऽऽविर्भवति । नाप्याविर्भूतं सद् विनश्यति, किन्तु च्छन्नरूपतया तिरोभावमेवाSS सादयति । एवं च सत्याऽऽविर्भाव - तिरोभावमात्र एव कार्योपचारात् कारणत्वमस्यौपचारिकमेव । तस्मादुत्पादादिरहितं द्रव्यमुच्यत इति । आह- ननु यद्येकस्वभावं निर्विकारं द्रव्यम्, तर्ह्यनन्तकालभाविनामनन्तानामप्याविर्भाव - तिरोभावानामेकहेलयैव कारणं किमिति न भवति १, इत्याह- अचिन्त्यमचिन्त्यस्वभावं द्रव्यम्, तेनैकस्वभावस्याऽपि तस्य क्रमेणैवाऽऽविर्भाव तिरोभावप्रवृत्तिः, सर्पादिद्रव्यष्वकस्वभावेष्वप्युत्फण-विफणादिपर्यायक्रममवृत्तेः प्रत्यक्षसिद्धत्वादिति । ननु यद्येवम् उत्फण-विफणादिबहुरूपत्वात् पूर्वावस्था परित्यागेन चोत्तरावस्थाऽधिष्ठानाद् अनित्यता द्रव्यस्य किमिति न भवति ? इति चेत्, इत्याह- वेषान्तरापन्न नटवद् बहुरूपमपि द्रव्यं नित्यमेव, इदमुक्तं भवति - यथा नायक- विदूषक -कपि-राक्षसादिपात्रावसरेषु वेषान्तराण्यापन्नो वेषान्तरापन्नो नटो बहुरूपः, एवमुत्कण-विकणादिभावैर्यद्यपि द्रव्यमपि बहुरूपम्, तथापि नित्यमेव, स्वयमविकारित्वात्, आकाशवत् - यथा हि घटपटादिसंबन्धेन बहुरूपमप्याकाशं स्वयमविकारित्वाद् नित्यम्, एवं द्रव्यमपीति भावः ॥ इति गाथार्थः ॥ ६७ ॥ कारणमेव च सर्वत्र त्रिभुवने विद्यते; न कचित् कार्यम्, यच्च कारणं तत् सर्वे द्रव्यमेव, इति दर्शयन्नाह पिंडो कारणमिट्ठे पयं व परिणामओ तहा सव्वं । आगाराइ न वत्युं निक्कारणओ खपुष्पं व ॥६८॥ मृदादिपिण्डः कारणमिष्टं कारणमात्रमेवाऽभ्युपगम्यते । कुतः १, इत्याह- परिणामित्वात् परिणमनशीलत्वात् पयोवद् दुग्धवत् । यथा च पिण्डः, तथाऽन्यदपि सबै स्थास- कोश- कुशूलादिकं त्रैलोक्यान्तर्गतं वस्तु कारणमात्रमेव, परिणामित्वात् पयोवत्, यद् यत् कारणं तत् सर्वं द्रव्यमेव, इति द्रव्यनयस्य स्वपक्षसिद्धिः । ननु मृत्पिण्डादीनां कार्यभूताः स्थास - कोश- कुशूल - घटादयः प्रत्यक्षेणैव दृश्यन्ते, संबन्धिशब्दश्व कारणशब्दः सर्वदैव कार्यापेक्ष एव प्रवर्तते, तत् कथं कारणमात्रमेवास्ति, न कार्यम् १, इति चेत् । १ आविर्भाव तिरोभावमानपरिणामकारणमचिन्त्यम् । मित्यं बहुरूपमपि च नट इव येषान्तरापः ॥ ६७ ॥ १ पिण्डः कारणमिष्टुं पय इव परिणामतस्तथा सर्वम् । आकारादिर्न वस्तु निष्कारणतः खपुष्पमिव ॥ ६८ ॥ ३ ष. छ. 'यच्च का' । For Personal and Private Use Only बृहद्वृत्तिः । ॥ ४४ ॥ www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy