________________
विशे० ॥ ४३ ॥
Jain Educationa Internatio
|णपरिणतत्वादाकारवती, तदनाकारवच्चे तु 'नीलस्येदं संवेदनं न पीतादेः ' इति नैयत्यं न स्यात्, नियामकाभावात् नीलाद्याकारो हि नियामकः, यदा च स नेष्यते तदा 'नीलग्राहिणी मतिर्न पीतादिग्राहिणी' इति कथं व्यवस्थाप्यते ?, विशेषाभावात् तस्माद। कारवत्येव मतिरभ्युपगन्तव्या । शब्दोऽपि पौद्गलिकत्वादाकारवानेव । घटादिकं वस्त्वाकारवच्चेन प्रत्यक्षसिद्धमेव । क्रियायुत्क्षेपणा-यक्षेपणादिका क्रियावतोऽनन्यत्वादाकारवत्येव । फलमपि कुम्भकारादिक्रियासाध्यं घटादिकं मृत्पिण्डादि वस्तुपर्यायरूपत्वादाकारवदेव | अभिधानमपि शब्दः, स च पौगलिकत्वादाकारवानित्युक्तमेव । तस्माद् यदस्ति तत् सर्वमाकारमयमेव यन्त्वनाकारं तद् नास्त्येव, वन्ध्यापुत्रादिरूपत्वात् तस्य ॥ इति गाथार्थः ॥ ६४ ॥
अथ प्रयोगद्वारेणाऽनाकारं वस्तु निराचिकीर्षुराह
रामयं वत्थु आगाराऽभावओ खपुष्पं व । उवलंभ-व्यवहाराऽभावाओ नाणगारं च ॥ ६५ ॥
परस्याऽऽकारवद्वस्तु निषेधकस्याऽनुमतमभिप्रेतं सामर्थ्याद् यदनाकारं वस्तु तद् नास्ति, आकाराभावात् खपुष्पवत् । अपरमपि हेतुद्रयमाह - 'उवलंभेत्यादि' 'नाणागारमिति' नास्त्यनाकारं वस्तु, सर्वथैवाऽनुपलभ्यमानत्वात् तेनाऽणीय सोऽपि व्यवहारस्याSभावाच्च, इति पर्यन्तवर्ती चकारोऽत्र योजनीयः खपुष्पवदिति दृष्टान्तो हेतुद्वयेऽपि स एव ।। इति गाथार्थः ॥ ६५ ॥
तदेवं स्थापनानयेनोक्ते द्रव्यनयः प्राह
देव्वपरिणाममित्तं मोत्तूणाऽऽगारदरिसणं किं तं ? । उप्पायव्वयरहिअं दव्वं चिय निव्वियारं तं ॥ ६६ ॥
को हि नाम स्थापना नयस्याऽऽकारग्रहः ?, यस्माद् द्रवतीति द्रव्यमनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारं मृदादि पूर्वपर्यायमात्रतिरोभावेऽग्रेत पर्याय मात्राऽविर्भावः परिणामो द्रव्यस्य परिणामो द्रव्यपरिणामः स एव तन्मात्रं तद् मुक्त्वा किमन्यदाऽऽकारदर्शनम्, येनोच्यते ' अंगारो च्चिय मइ सद्द-वत्थु -' इत्यादि । ननु द्रव्यमेव तत् । किंविशिष्टम् १, उत्पाद-व्ययरहितं निर्विकारं उत्फण-विफ- कुण्डलिताकारसमन्वित सर्पद्रव्यवद् विकाररहितम् ; किं हि नाम तत्राऽपूर्वमुत्पन्नम् विद्यमानं वा विनष्टम् येन विकारः स्यात् १, इति भावः ॥ इति गाथार्थः ॥ ६६ ॥
१ न परानुमतं वस्तु आकाराऽभावात् खपुष्पमिव । उपलम्भ-व्यवहाराऽभावाद् नाऽनाकारं च ॥ ६५ ॥
२ द्रव्यपरिणाममा मुक्त्वाऽकारदर्शनं किं तत् ? उत्पादव्ययरहितं द्रव्यमेव निर्विकारं तत् ॥ ६६ ॥ ३ गाथा ६४ ।
For Personal and Private Use Only
वृहद्वृत्तिः ।
॥ ४३ ॥
www.jainelibrary.org