________________
विशे० ॥ ४२ ॥
Jain Educationa Internation
ऽर्थप्राप्तिरिति चेत् । तदेतदिहाऽपि समानम्, सुविवेचितादाप्तप्रणीतशब्दाद् वस्तुप्राप्तेरत्राऽप्यवश्यंभावित्वात् इत्यादि वह वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनतामसङ्गात्, अन्यत्रोक्तत्वाच्च ।। इति गाथार्थः ॥ ६१ ॥
किश्व
संसयविवज्जया वाऽज्झवसाओऽहवा जदिच्छाए । होज्जत्थे पडिवत्ती न वत्थुधम्मो जया नामं ॥ ६२ ॥ यदा वस्तुधर्मो नाम नेष्यते तदा वक्त्रा घटशब्दे समुच्चारिते श्रोतुः ' किमयमाह ?' इत्येवं संशय एव स्यात्, न घटप्रतिपत्तिः । अथवा घटशब्दे प्रोक्ते पटप्रतिपत्तिलक्षणो विपर्ययः स्यात् । अथवा ' न जाने किमप्यनेनोक्तम् ' इति चित्तव्यामोहेन वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः स्यात् । यदि वा यदृच्छयाऽर्थे प्रतिपत्तिर्भवेत् कदाचिद् घटस्य, कदाचित् पटस्य, कदाचित्तु स्तम्भस्येत्यादिन चैवं भवति । तस्माद् वस्तुधर्म एव नाम ।। इति गाथार्थः ॥ ६२ ॥
अपि च
वैत्थुस्स लक्ख-लक्खण-संववहाराऽविरोहसिद्धीओ । अभिहाणाऽहीणाओ बुद्धी सद्दो य किरिया य ॥६३॥
वस्तुनो जीवादेः । किम् ?, इत्याह- अभिधानाऽधीना नामाऽऽयत्ताः । काः १, इत्याह- लक्ष्यं च लक्षणं च संव्यवहारथ लक्ष्य लक्षण-संव्यवहारास्तेषामविरोधेनाऽविपर्ययेण सिद्धयः प्रतिष्ठाः । तत्र लक्ष्यं जीवत्वादि, लक्षणमुपयोगः, संव्यवहारोऽध्येषण - प्रेषणादिः । तथा बुद्धि-शब्द- क्रियाच 'अभिधानाऽधीना: ' इत्यत्राऽपि संवध्यते । तत्र बुद्धिर्वस्तु निश्चयरूपा, शब्दो घटादिध्वनिरूपः क्रिया चोत्क्षेपणा - ऽवक्षेपणादिका । तस्मादभिधानमेव वस्तु सत्, तदाऽऽयत्ताऽऽत्मलाभत्वात् सर्वव्यवहाराणाम् ॥ इति गाथार्थः ॥ ६३ ॥
तदेवं शब्दनयेन निजमते स्थापिते स्थापनानयः प्राह
आगारो चिय मइ - सद्द-वत्थु-किरिया - फलाऽभिहाणाई । आगारमयं सव्वं जमणागारं तयं नत्थि ॥६४॥ आकार व आकारमात्ररूपाण्येव । कानि १, इत्याह-मतीत्यादि, मतिश्च शब्दश्रेत्यादिद्वन्द्वः । तत्र मतिस्तावज्ज्ञेयाऽऽकारग्रह
१ संशयविपर्ययौ वाऽनध्यवसायोऽथवा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥ ६२ ॥
२ वस्तुनो लक्ष्य लक्षण-संव्यवहाराऽविरोधसिद्धयः । अभिधानाधीनाः बुद्धिः शब्दश्व क्रिया च ॥ ६३ ॥
३ आकार एव मति-शब्द-वस्तु-क्रिया फला-ऽभिधानानि । आकारमयं सर्वं यदनाकारं तद् नास्ति ॥ ६४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४२॥
www.jainelibrary.org