________________
विशे० ॥ ४१ ॥
Jain Educationa Internation
ततन्तुसन्तानः पट इत्यादि । स्थापना पुनर्यस्तस्यैव सर्वस्य वस्तुनो निज आकारः । भाविकपालादिकार्यापेक्षया तु या 'स' तस्य सर्वस्यापि वस्तुनः कारणता हेतुतां तद् द्रव्यम्, “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम् " इति वचनात् । मृत्पिण्डादिवस्तुनस्तु कार्यापनं जन्यत्वापनं तदेव घटादिकं सर्व वस्तु भावोऽभिधीयते, भवनं भाव इति कृत्वा । इत्थं सर्व वस्तु चतूरूपाऽविनाभूतं दृष्टम् एवमेव सम्यग्दर्शन व्यवस्थानात्, सर्वनयसमूहात्मकत्वाज्जिनमतस्य । तदेवं सर्वस्यापि वस्तुनश्चतूरूपतायां किमुच्यते 'ईह भावो श्चिय वत्युं तयत्थसुन्नेहिं किं व सेसेहिं ' इत्यादि ११ न ह्येकस्मिन्नेव वस्तुन्येककालं विद्यमानानां पर्यायाणां मध्ये 'अयं वस्तु ' 'अपरस्त्ववस्तु' इति वक्तुं शक्यते, द्रव्यरूपतया सर्वेषामपि तेषामेकत्वादिति भावः ॥ इति गाथार्थः ॥ ६०॥ अस्मिंश्च नामादिरूपचतुष्टये नामनयः प्रधानं नामैव मन्यते । तत्र ये सुगतमतानुसारिणो “ न हार्थे शब्दाः सन्ति " इत्यादिवचनाद् नानो वस्तुधर्मत्वमेव नेच्छन्ति, तान् प्रति नामनयः प्राह
वैत्थुसरूवं नामं तप्पच्चयहेउओ सधम्म व्व । वत्युं नाऽणभिहाणा होज्जाऽभावो विवाऽवच्च ॥ ६१ ॥ नामनयस्याऽयमभिप्रायः - वस्तुनः स्वरूपं नाम, तत्प्रत्ययहेतुत्वात्, स्वधर्मवत् इह यद् यस्य प्रत्यर्यहेतुस्तत् तस्य धर्मः, यथा घटस्य स्वधर्मा रूपादयः, यच्च यस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, संपद्यते च घटाभिधानाद् घटे संप्रत्ययः, तस्मात् तत् तस्य धर्मः सिद्धश्व हेतुरावयोः, घटशब्दात् पटादिव्यवच्छेदेन घट इति प्रतिपत्यनुभूतेः । सर्वे च वस्तु नामरूपतां न व्यभिचरतीति दर्शयन्नाह - 'वत्थुमित्यादि ' यदि वस्तुनो नामरूपता न स्यात् तदा तद् वस्त्वेव न भवेदिति संबन्धः । कुतः १, इत्याहअनभिधानादभिधान रहितत्वादित्यर्थः । अवाच्योऽभिधानरहितत्वेनाऽनभिषेयो योऽसावभावः षष्ठभूतादिलक्षणस्तद्वदिति दृष्टान्तः, इद यदभिधानरहितं तद् वस्त्वेव न भवति, यथाऽभिधानरहितत्वेनाऽवाच्यः षष्ठभूतलक्षणोऽभावः अभिधानरहितं च वस्त्वभ्युपगम्यते परैः, ततोsवस्तुत्वमेवास्य भवेद्, अवस्तुत्वे च कुतस्तत्प्रत्ययहेतुत्वलक्षणस्य हेतोर्वृत्तिः, येनाऽनैकान्तिकता स्यात् ? । तंत्र तद्वृत्तौ वा तस्याऽपि वस्तुत्वमेव भवेत्, स्वप्रत्ययजनकत्वात् घटादिवदिति । विपक्ष एव वृत्तेरभावाद् विरुद्धताऽप्यसंभविनीति । तस्माद् वस्तुधर्म एव नामेति स्थितम् । न च 'नद्यास्तीरे गुडभृतशकटम् ' इत्यादिशब्दात् मवृत्तस्य कदाचिद् वस्त्वमाप्तेरवस्तुधर्मता तस्येत्याशङ्कनीयम्, प्रत्यक्षादिप्रमाणानामपि तत्प्रसङ्गात् - तेभ्योऽपि हि प्रवृत्तस्य कदाचिद् वस्त्वमाप्तेः । अवाधितेभ्यस्तेभ्यः प्रवृत्तौ भवत्येवा
१ प. छ. 'हेतुभूतता'। २ गाथा ५५ । ३ वस्तुस्वरूपं नाम तत्प्रत्ययहेतुतः स्वधर्म इव । वस्तु नाऽनभिधानाद् भवेदभाव इवाऽवाच्यः ॥ ६१ ॥ ४ ख. ग. 'यस्य हेतु' । ५ नानि । ६ तत्प्रत्ययहेतुत्वलक्षणहेतुप्रवर्तने । ७ नाम्नोऽपि ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ४१ ॥
www.jainelibrary.org