SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ वृहद्वात्तिः। यद् यस्माद् द्रव्येन्द्रियाणि द्रव्यमनश्च, अक्षस्य जीवस्य पराणि भिन्नानि वर्तन्ते । कथंभूतानि पुनद्रव्येन्द्रिय-द्रव्यमनांसि ?, विशे० इत्याह-पुद्गलकृतानि पुद्गलस्कन्धनिचयनिष्पन्नानि, हेतुद्वारेण चेदं विशेषणं द्रष्टव्यम्-पुद्गलकृतत्वाद्, येन द्रव्येन्द्रिय-मनांसि जीवस्य परभूतानि, तेन तेभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुत्पद्यते, तत् तस्य साक्षादनुत्पतेः परोक्षम् , अनुमानवदिति । इदमुक्तं भवतिअपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात् तु मूर्तानि द्रव्यन्द्रिय-मनांसि, अमूर्ताच्च मूर्त पृथगभूतम् , ततस्तेभ्यः पौगलिकेन्द्रिय-मनोभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुपजायते, तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षमिह जिनमते परिभाष्यते ।। इति गाथार्थः ॥१०॥ ये तु वैशेषिकादयोऽक्षमिन्द्रियं प्रति गतं प्रत्यक्षम् , शेषं तु परोक्षमिति मन्यन्ते, तद्दर्शनमपाकर्तुमाह. केसिंचि इंदिआइं अक्खाइं, तदुवलद्धि पच्चक्खं । तन्नो, ताइं जमचेअणाइं जाणंति न घडो व्व॥ ९१ ॥ केषांचिद् वैशेषिकादीनां मतेनाऽक्षाणि स्पर्शनादीनीन्द्रियाण्युच्यन्ते, न जीव इति भावः । 'तदुवलद्धि पञ्चक्खं ति' तेषामिन्द्रियाणां येयं साक्षाभूटाद्यर्थोपलब्धिर्घटादिज्ञानं तत् प्रत्यक्षम् , अन्यत् तु परोक्षमिति । अङ्गीक्रियतां तर्हि तन्मतमित्याह-'तन्नो इत्यादि' तिदेतद् वैशेषिकादिमतं न युक्तम् , यतस्तानीन्द्रियाण्यचेतनानि, ततश्च न जानन्ति न वस्तुस्वरूपमुपलभन्ते, घटवत् , तथाहि-यदचेतनं तत् सर्वमपि न जानाति, यथा घटादि, अचेतनानि चेन्द्रियाणि, इति कुतस्तेषामुपलब्धिः? या प्रत्यक्षं स्यादिति भावः । तथा इन्द्रियाणां EMS ज्ञानशून्यत्वे मूर्तिमत्त्व-स्पर्शादिमत्वादयोऽपि हेतवो वाच्याः॥ इति गाथार्थः ॥ ९१ ।। नन्विन्द्रियाणि न जानन्ति, इति प्रत्यक्षविरोधिनी प्रतिज्ञा, तेषां साक्षात्कारेणार्थोपलब्धेरनुभवप्रत्यक्षेण प्रतिपाणि प्रसिद्धत्वात् , इत्याशक्याह उवलडा तत्थाऽऽया तविगमे तदुवलद्धसरणाओ। गेहगवक्खोवरमे वि तदुवलडाणुसरिया वा ॥ ९२ ॥ 'तत्थ त्ति' तत्र चक्षुरादीन्द्रिये करणतया व्याप्रियमाणे उपलब्धा वस्तूनां बोद्धा आत्मैव द्रष्टव्यः, न त्विन्द्रियम् । कुतः, इत्याह- 'तविगमेत्यादि' तस्य चक्षुरादीन्द्रियस्य विगमेऽभावेऽपीत्यर्थः, तदुपलब्धस्य पराभ्युपगमेनेन्द्रियोपलब्धस्याऽर्थस्य स्मरणात् । क इव ?, इत्याह-तेन गृहगवाक्षेण करणभूतेनोपलब्धस्य योषिदाद्यर्थस्य योऽनुस्मर्ता देवदत्तादिः स इव, वाशब्दस्येवार्थत्वात् । क सति ?, इत्याह- गृहगवाक्षस्योपरमेऽप्यभावेऽपि सतीत्यर्थः । अत्र प्रयोगः- इह यो येषूपरतेष्वपि तदुपलब्धानाननुस्मरति स तत्रो १ केषांचिदिन्द्रियाणि अक्षाणि, तदुपलब्धिः प्रत्यक्षम् । तन्न, तानि यदचेतनानि जानन्ति न घट इव ॥ ११ ॥ १ उपलब्धा तत्राऽऽत्मा तद्विगमे तदुपलब्धस्मरणात् । गेहगवाक्षोपरमेऽपि तदुपलब्धाऽनुस्मर्ता वा (इव)॥ १२ ॥ ॥५९॥ Jan Education Inter For Personal and Private Use Only www.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy