________________
विशे०
दत्तिः ।
॥६
| पलब्धा दृष्टः, यथा गृहगवाक्षोपलब्धानामर्थानां तद्विगमेऽप्यनुस्मा देवदत्तादिः, अनुस्मरति चेन्द्रियविगमेऽपि तदुपलब्धमर्थमात्मा,
तस्मात् स एवोपलब्धा, यदि पुनरिन्द्रियाण्युपलम्भकानि स्युः, तदा तद्विगमे कस्याऽनुस्मरणं स्यात् । न ह्यन्येनोपलब्धेऽर्थेऽन्यस्य स्मरणं ॥ युक्तम् , अतिप्रसङ्गात् , अस्ति चाऽनुस्मरणम् । तस्माद् 'न जानन्तीन्द्रियाणि' इति स्थितेयं प्रतिज्ञा, तद्बाधकत्वेनोक्तस्याऽनुभवप्रत्यक्षस्य यथोक्तानुमानवाधितत्वेन भ्रान्तत्वादिति ॥
अत्राह-कस्येदं दर्शनं यत् स्वतन्त्राणीन्द्रियाण्युपलब्धिमन्ति ?, वयं हि ब्रूमः- यदिन्द्रिय-मनोनिमित्तमात्मनो ज्ञानमुत्पद्यते तत् | प्रत्यक्षम् “आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियं चार्थेन" इति वचनादिति । हन्त ! एवं सति परनिमित्तत्वादनुमानवत् परोक्षत्वमस्य प्रागेव · अक्खस्स पोग्गलकया जं दविदिय-मणा परा तेणं' इत्यादिग्रन्थेनोक्तम् , इति कुतस्तस्य प्रत्यक्षता । अथ ज्ञानशून्येऽपीन्द्रियज्ञाननिमित्तत्वेन साक्षाद् व्याप्रियमाणत्वादुपचारेण 'अक्षमिन्द्रियं प्रति वर्तते' इति प्रत्यक्षता प्रोच्यते । हन्त ! तर्हि
'इन्द्रियोपलब्धिः प्रत्यक्षम्' इत्येतल्लक्षणमिह न घटते, जीवोपलब्धित्वादस्याः । संव्यवहारमात्रेण तु प्रत्यक्षत्वमस्याऽस्माभिरग्यनन्तरRAमभ्युपगंस्यते, इति सिद्धसाध्यतैव ।। इति गाथार्थः ॥ ९२ ॥
तदेवमिन्द्रिय-मनोनिमित्तज्ञानस्य परोक्षता प्रतिपाद्य प्रयोगोपन्यासेन तामेव द्रढयवाह
इंदिय-मणोनिमित्तं परोक्खमिह संसयादिभावाओ। तक्कारणं परोक्खं जहेह साभासमणुमाणं ॥ ९३ ॥ ।
यदिन्द्रिय-मनोनिमित्तं ज्ञानमुपजायते तदात्मनः परोक्षम् । कुतः?, इत्याह-संशयादिभावादिति, आदिशब्दाद् विपर्यया-ऽनध्यवसाय-निश्चयपरिग्रहः । तत्कारणमिति तानीन्द्रिय-मनांसि कारणं यस्य साभासानुमानस्य सम्यगनुमानस्य च तत् तत्कारणं ज्ञानमन्यत्रापि परोक्षं दृष्टम्, यथा साभासमनुमानं सम्यगनुमान चेत्येवं लुप्तचकारस्य दर्शनाद् दृष्टान्तद्वयमिह द्रष्टव्यम् । तत्र संशय-विपर्ययाऽनध्यवसायसंभवलक्षणे हेतौ प्रथमो दृष्टान्तः, निश्चयसंभवस्वरूपे तु हेतौ द्वितीयो दृष्टान्तः, तथाहि प्रयोगः-यदिन्द्रिय-मनोनिमित्तं ज्ञानं । तत् परोक्षम् , संशय-विपर्यया ऽनध्यवसायानां तत्र संभवात् , इन्द्रिय-मनोनिमित्ताऽसिद्धा-नैकान्तिक-विरुद्धानुमानाभासवत्, इति प्रथमः प्रयोगः, यदिन्द्रिय-मनोनिमित्तं ज्ञानं तत् परोक्षम् , तत्र निश्चयसंभवात्, धूमादेरग्न्याधनुमानवत् , इति द्वितीयः, यत् पुनः प्रत्यक्षं तत्र संशय-विपर्ययाऽनध्यवसाय-निश्चया न भवन्त्येव, यथाऽवध्यादिषु, इति विपर्ययः। नन निश्रयसंभवलक्षणो हेतुरवध्यादिष्वपि वर्तत
१ गाथा ९० । २ च. 'मस्मा'। ३ इन्द्रिय-मनोनिमित्तं परोक्षमिह संशयादिभावात् । तत्कारणं परोक्षं बथेद साभासमनुमानम् ॥ १३ ॥
॥ ६
॥
For Personal and eve
ry