________________
विशे० ॥ ६१॥
बृहद्वत्तिः ।
इत्यनैकान्तिक इति चेत् । नैवम् , अभिप्रायाऽपरिज्ञानात्, संकेत स्मरणादिपूर्वको हि निश्चयोऽत्र विवक्षितः, तादृशश्चाऽयमवध्यादिषु नास्ति, ज्ञानविशेषत्वात् तेषाम् , इत्यदोषः ।। इति गाथार्थः ॥९३ ॥
तदेवमविशेषितमिन्द्रिय-मनोनिमित्तं ज्ञानं पक्षीकृत्य संशयादिसंभवहेतुद्वारेण परोक्षत्वं साधितम् । सांपतं विशेषत एव मति-श्रुते । पक्षीकृत्य हेत्वन्तरेणापि तत् सिसाधयिषुराह
होन्ति परोक्खाई मइ-सुयाई जीवस्स परनिमित्ताओ। पुव्वोवलद्धसंबंधसरणाओ वाणुमाणं व ॥९॥ मति-श्रुते जीवस्य परोक्षे, परनिमित्तत्वात् , पूर्वोपलब्धसंबन्धस्मरणद्वारेण जायमानत्वाद् वा, अनुमानवत् ॥ इति गाथार्थः।।९४॥
आह- नन्विन्द्रिय-मनोनिमित्तं ज्ञानं परोक्षमिति यदुक्तं तदुत्सूत्रमेव, यतः सूत्रे प्रोक्तम्- " पंचक्खं दुविहं पन्नत्तं, तं जहाइन्दियपच्चक्खं च नोइंदियपञ्चक्खं च" इति । सत्यम् , किन्तु येयमिन्द्रियजज्ञानस्य प्रत्यक्षता प्रोक्ता सा संव्यवहारमात्रत एव, परमार्थतस्तु परोक्षमेवेदम् । तथाच भाष्यकारो विषयविभागमुपदर्शयन्निदमेवाह
एगतेण परोक्खं लिंगियमोहाइयं च पच्चक्खं । इंदिय-मणोभवं जं तं संववहारपच्चक्खं ॥ ९५ ॥
'एगंतेण परोक्खं लिंगियमिति' बाह्ये धूमादौ लिङ्गे भवं लैङ्गिकं यज्ज्ञानं तदेकान्तेनाऽऽत्मन इन्द्रिय-मनसा चाऽसाक्षात्कारेणोपजायमानत्वादेकान्तपरोक्षम्- इन्द्रिय मनोभिहीते वाह्ये धूमादौ लिङ्गेऽग्न्यादिविषयं यज्ज्ञानमुत्पद्यते तदेकान्तेन परोक्षम् , इन्द्रियमनसामात्मनश्च तद्ग्राह्यार्थस्यैकान्तेन परोक्षत्वात् , इति भावः । 'ओहाइयं च पञ्चक्खमिति ' 'एकान्तेन' इत्यत्राऽपि वर्तते, ततश्चाऽवधिमनःपर्याय केवललक्षणं ज्ञानत्रयमेकान्तेनाऽऽत्मनः प्रत्यक्षम् , बाह्यलिङ्गमन्तरेणेन्द्रिय-मनोनिरपेक्षत्वेन च जीवस्य वस्तुसाक्षात्कारित्वादिति । 'इंदियमणोभवमित्यादि ' यत्पुनरिन्द्रिय-मनोभवं ज्ञानं तत् संव्यवहारप्रत्यक्षम् , लिङ्गमन्तरेणैव यदिन्द्रिय-मनसा वस्तुसाक्षात्कारित्वेन ज्ञानमुपजायते तत् तेषां प्रत्यक्षत्वाल्लोकव्यवहारमात्रापेक्षया प्रत्यक्षमुच्यते, न परमार्थत इत्यर्थः, इन्द्रिय-मनःसु अचेतनत्वेन ज्ञानवृत्तेरभावादिति प्रागेवोक्तम् । एतामेव च संव्यवहारप्रत्यक्षतामपेक्ष्याऽऽगमेऽपीन्द्रियप्रत्यक्षमित्युक्तम् , परमार्थतस्त्ववध्यादिकमेव प्रत्यक्षम् , आत्मनः प्रत्यक्षत्वात् । इदं तु तस्य परोक्षम् , परनिमित्तत्वात् , अनुमानादिवत् , इत्यनेकधा प्रोक्तमेव ।।
१ भवतः परोक्षे मति-श्रुते जीवस्य परनिमित्तात् । पूर्वोपलब्धसंबन्धस्मरणात् वाऽनुमानमिव ॥ १४ ॥ २ भन्यध्ययने । ३ प्रत्यक्षं द्विविधं प्रज्ञप्तम् , तद्यथा-इन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं। . एकान्तेन परोक्षं लैङ्गिकमक्यादिकं च प्रत्यक्षम् । इन्द्रिय-मनोभवं यत् तत् संध्यवहारप्रत्यक्षम् ॥ १५॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.org