________________
परसराम
पर
विशे०
॥६२॥
कामपनर हरभरा
आह-ननु भाष्यकारेणाऽपि कुत एतल्लब्धं यदुत-इन्द्रियमनोभवं ज्ञानं संव्यवहारत एव प्रत्यक्षम् , न परमार्थतः ?; न ह्यत्र सूत्रे किमप्येवं विशेषतः प्रोक्तमस्ति 'इन्द्रियप्रत्यक्षम्' इति सामान्येनैव निर्देशात् । सत्यम्, किन्तु प्रदेशान्तरे प्रोक्तम्-" पेरोक्खं दुविहं पन्नत्तं, तं जहा- आभिणियोहिअनाणं परोक्खं च, सुयनाणं परोक्खं च " इति । न चाऽऽभिनिबोधिक-श्रुताभ्यामन्यदिन्द्रियनिमित्तं ज्ञानमस्ति यत् परमार्थतः प्रत्यक्षं स्यादिति ॥
___ आह-ययेवम् , तर्हि यल्लिङ्गमन्तरेणैव साक्षादिन्द्रियनिमित्तं ज्ञानमुत्पद्यते तत् परमार्थतः प्रत्यक्षमस्तु, यत्तु धूमादिलिङ्गादग्न्यादिविषयं लैङ्गिकं ज्ञानं तत् परोक्षस्वरूपे आभिनिवोधिक-श्रुते इष्यताम् , इत्यागमस्य प्रदेशद्वयोक्तमपि समर्थितं भवति । तदयुक्तम् , धूमादिलिङ्गादग्न्यादिविषयलैङ्गिकज्ञानस्येन्द्रियनिमित्तत्वाभावात् , इन्द्रियं हि प्रत्युत्पन्नकालमात्रभाव्येव वस्तु गृह्णाति, लिङ्गात् तु वढ्यादिरर्थस्त्रिकालविषयोऽप्यनुमीयते । तस्माल्लैङ्गिक ज्ञानं मनोनिमित्तमेव भवति, नेन्द्रियनिमित्तम् , इन्द्रिय-मनोनिमित्ते च मति-श्रुते अत्रैव वक्ष्येते, इति कथं केवलमनोविषयस्य लैङ्गिकज्ञानस्यैव मति-श्रुतरूपता स्यात् । किश्च, इन्द्रियजज्ञानस्य मति-श्रुताभ्यां पार्थक्ये षष्ठज्ञानप्रसङ्गः स्यात् । तस्मादिन्द्रियजज्ञानस्य मति-श्रुतयोरेवाऽन्तर्भावः, तथा च सति मति-श्रुतयोः परोक्षत्वे तस्याऽपि पारमार्थिकं परोक्षत्वमेव, मनोनिमित्तस्यापि ज्ञानस्य परनिमित्तत्वादनुमानवत् परोक्षत्वं प्रागेवोक्तम् । न च वक्तव्यम्-आगमे तत् तस्य न कचिद् विशेपतोऽभिहितम् , यतो मति-श्रुतयोरागमे परोक्षत्वस्य विशेषतोऽभिधानात्, मनोनिमित्तस्याऽपि च ज्ञानस्य तदन्तःपातित्वादिन्द्रियजज्ञानस्येव परोक्षत्वं सिद्धमेव ।।
आह-ननु " इंदियपच्चक्खं च नोइंदियपञ्चक्खं च " इत्यत्र मनोनिमित्तज्ञानस्य सिद्धान्ते प्रत्यक्षत्वमुक्तम् , यतो नोइन्द्रियं तत्र मन उच्यते, तस्येन्द्रियैकदेशवृत्तित्वात् , नोशब्दस्य चैकदेशवचनत्वात् । ततश्च नोइन्द्रियनिमित्तं प्रत्यक्षं नोइन्द्रियप्रत्यक्षमिति व्युत्पल्या मनोनिमित्तज्ञानस्य प्रत्यक्षतैव स्यात् , कथं परोक्षता ? इति । तदयुक्तम् , आगमार्थाऽपरिज्ञानात् , तत्र हि नोशब्दः सर्वनिषेधवचनः, ततश्चेन्द्रियाभाव एव नोइन्द्रियमुच्यते, तथा च सति नोइन्द्रियेणेन्द्रियाभावेनाऽऽत्मनः प्रत्यक्षं नोइन्द्रियप्रत्यक्षमिति समासः, सर्वथेन्द्रियप्रवृत्तिरहितानि चाऽऽत्मनः प्रत्यक्षाण्यवधि-मनःपर्याय-केवलान्येव भवन्ति, न पुनर्मनोनिमित्तं ज्ञानम् । यदि पुनर्नोइन्द्रियं तत्र मनो व्याख्यायेत, तदा नोइन्द्रियनिमित्तं प्रत्यक्षमिति मनोनिमित्तमेवाञ्चध्यादि ज्ञानं प्रत्यक्षं स्यात्, तथा च सति मनःपर्याप्त्याऽपर्याप्तस्य मनुष्य-देवादेरवधिज्ञानं न स्यात् , मनसोऽभावात् , तच्चाऽयुक्तम् , “चुएमि त्ति जाणइ" इति वचनेन सिद्धान्ते तस्याऽवधिज्ञानाभ्युपगमा
नन्दीसूत्रस्येति गम्यते । २ परोक्षं द्विविधं प्रज्ञप्तम् , तद्यथा-- आभिनियोधिकज्ञानं परोक्षं च श्रुतज्ञानं परोक्षं च । ३ च्यवे इति जानाति ।
कामकलाकार कर
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary