SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ विशे० ॥ P BreaPPS त् । किंच, सिद्धानामपि प्रत्यक्षज्ञानाभावः स्यात् , अमनस्कत्वात् तेषाम् । अपरं च, मनोनिमित्तं ज्ञानं मनोद्रव्यद्वारेणैव जायते; ततश्च परनिमित्तत्वादनुमानवत् परोक्षमेव तत् कथं प्रत्यक्षं स्यात् । किञ्च, यद्येतत् परमार्थतः प्रत्यक्षं स्यात् तदा परोक्षत्वेनोक्तयोमति-श्रुतयोर्नान्तर्भवेत् , ततश्च मतेरष्टाविंशतिभेदभिन्नत्वं न स्यात्, मनोज्ञानसंबन्धिनामवग्रहादिभेदानां पार्थक्यप्रसङ्गात् , तत्पार्थक्ये षष्ठज्ञानाप्राप्तिश्च स्यादिति । तस्मादिन्द्रिय-मनोभवं ज्ञानं परनिमित्तत्वात् परोक्षम् , मति-श्रुतान्तर्भावाच्च परमार्थतः परोक्षम्। संव्यवहारतस्तु प्रत्यक्षमिति स्थितम् ।। इति गाथार्थः ॥ ९५ ॥ तदेवं ज्ञानपञ्चके यत् प्रत्यक्षं यच्च परोक्षं तद् दर्शितम् , सांप्रतं " 'जं सामि-काल-कारण-विसय-परोक्खत्तणेहिं तुल्लाई " इति यदुक्तं प्राक् , तदुपजीव्य परः पाह सौमित्ताइविसेसाभावाओ मइसुएगया नाम । लक्खण-भेआदिकयं नाणत्तं तयबिसेसे वि ॥ ९६ ॥ परः पाह- ननु पूर्व मति-श्रुतयोः स्वामि-कालादिभिस्तुल्यत्वमभिदधानैर्भवद्भिः स्वहस्ताङ्गाराकर्षणमनुष्ठितम् , यत एवं सति स्वामित्वादिभिर्विशेषाभावाद् मति-श्रुतयोरेकतैव प्राप्ता, न भेदः स्यात् । तथा च न ज्ञानपञ्चकसिद्धिः, धर्मभेदे हि वस्तूनां भेदः स्यात् । तदभेदे तु घट-तत्स्वरूपयोरिवाऽभेद एव श्रेयानिति भावः । अत्राऽऽचार्यः प्रत्युत्तरमाह-- 'लक्खणेत्यादि' तेषां खामित्वादीनामविशेषस्तदविशेषस्तत्र सत्यपि मति-श्रुतयो नात्वं भिन्नत्वमस्ति । किंकृतम् ?, इत्याह-- लक्षणभेदादिकृतं, आदिशब्दाद् वक्ष्यमाणकार्यकारणभावादिपरिग्रहः, इदमुक्तं भवति- यद्यपि स्वामि-कालादिभिर्मतिश्रुतयोरेकत्वम् , तथापि लक्षण-कार्यकारणभावादिभिर्नानात्वमस्त्येव, घटाकाशादीनामपि हि सत्त्व-प्रमेयत्वा-ऽर्थक्रियाकारित्वादिभिः साम्येऽपि लक्षणादिभेदाद् भेद एव । यदि पुनर्बहुभिर्धर्भेदे सत्यपि कियद्धर्मसाम्यमात्रादेवार्थानामेकत्वं प्रेर्यते, तदा सर्व विश्वमेकं स्यात् , किं हि नाम तद् वस्त्वस्ति यस्य वस्त्वन्तरैः सह कैश्चिद् धमैंने साम्यमस्ति । तस्मात् स्वाम्यादिभिस्तुल्यत्वेऽपि लक्षणादिभिर्मति-श्रुतयोर्भेदः ॥ इति गाथार्थः ॥९६ ॥ तान्येव लक्षणादीनि पुरतो विस्तराभिधेयात् संपिण्डयैकगाथया दर्शयतिलैक्खणभेआ हेऊफलभावओ भेयइन्दियविभागा । वाग-क्खर-मूए-यरभेआ भेओ मइ-सुयाणं ॥ ९७ ॥ लक्षणभेदाद् भिन्नलक्षणत्वाद् मति-श्रुतयोर्भेदः । तथा मतिज्ञानं हेतुः, श्रुतं तु तत्फलं तत्कार्यम् । इति हेतुफलभावात् तयो १ गाथा ८५ । २ स्वामित्वादिविशेषाभावाद् मति-श्रुतैकता नाम । लक्षण-भेदादिकृतं नानात्वं तदविशेषेऽपि ॥ १६ ॥ लक्षणभेदाद् हेतुफलभावाद् भेदेन्द्रियविभागात् । वल्काक्षरमूकेतरभेदाद् भेदो मति-श्रुतयोः ॥ ९७ ॥ purm.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy