________________
विशेषा
॥१३८॥
__यत्पुनः स्वमे जिनस्नात्रदर्शनादिकं विज्ञान, यच्च स्वमे विबुद्धमात्रस्य च हर्षादिकं तत्फलं, तदनुभवादिसिद्धत्वात्को निवारयति ?, तथा, यो भविष्यत्फलापेक्षया स्वमस्य निमित्तभावः स्वमनिमित्तभावस्तं च को वा निवारयति', यच्च तस्मात् स्वमनिमित्तादवश्यंभावि भविष्यत्फलं तदपि को निवारयति ? । यदेव हि मेरुगमनक्रियादिकं युक्त्या नोपपद्यते तदेव निषिध्यते, न त्वेतानि विज्ञानादीनि, युक्त्युपपन्नत्वात् । न चैतैरभ्युपगतैरपि मनसः प्राप्यकारिता काचित् सिध्यतीति भावः ॥ इति गाथार्थः ॥ २३२॥
किमिति पुनः स्वप्नस्य निमित्तभावो न निवार्यते ?, इत्याशङ्कयाह
'देहप्फुरणं सहसोइयं च सिमिणो य काइयाईणि । सगयाइं निमित्ताई सुभा-सुभफलं निवेएंति ॥२३३॥
स्वस्मिन्नात्मनि गतानि स्थितानि स्वगतानि निमित्तानि, एतानि शास्त्रे, लोकेऽपि च प्रसिद्धानि भविष्यच्छुभा-शुभफलं निवेदयन्ति । कानि पुनस्तानि ?, इत्याह- कायिकम्, आदिशब्दाद् वाचिकं, मानसं च । एतान्येव क्रमेण दर्शयति- कायिकं बाहादौ देहस्फुरणं भविष्यच्छुभा-ऽशुभफलं निवेदयति, वाचिकं तु सहसोदितं- सहसाऽकस्मादेवोदितं सहसोदितं सहसैव तेत् किमपि बदत आगच्छति यत् , भविष्यच्छुभा-ऽशुभफलमावेदयति, मानसं तु निमित्तं खमे, इत्येतानि को निवारयति , लोक-शास्त्रप्रसिद्धस्य, युक्त्युपपन्नस्य च निषेधुमशक्यत्वात् ।। इति गाथार्थः ।। २३३ ।।
___ आह- ननु स्त्यानदिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पाटनादिमवृत्तस्य स्वमे मनसः प्राप्यकारिता, तत्पूर्वको व्यञ्जनावग्रहश्च सिद्धयति, तथाहि-स तस्यामवस्थायां 'द्विरददन्तोत्पाटनादिकं सर्वमिदमहं स्वमे पश्यामि' इति मन्यते, इत्ययं स्वमः, मनोविकल्पपूर्विका च दशनाद्युत्पाटनक्रियामसौ करोति । इति मनसः प्राप्यकारिता, तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव, इत्याशङ्क्याहसिमिणमिव मन्नमाणस्स थीणगिद्धिस्स वंजणोग्गया । होज व, न उ सा मणसो सा खलु सोइंदियाईणं ॥२३॥
'होज्ज व' इत्यत्र वाशब्दः पुनरर्थे, तस्य च व्यवहितः संबन्धः कार्यः, तद्यथा- अनन्तरोक्तयुक्तिभ्यः स्वमावस्थायामपि विषयप्राप्त्यभावाद् मनसो व्यञ्जनावग्रहो नास्ति, स्त्यानगृद्धः पुनः स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोरित्यर्थः, मांसभक्षण-दशनोत्पाटनादि कुर्वतो गाढनिद्रोदयपरवशीभूतत्वेन स्वममिव मन्यमानस्य भवेद् व्यञ्जनावग्रहता-- स्याद् व्यञ्जनावग्रह इत्यर्थः, न वयं तत्र
||१३८॥
, देहस्फुरणं सहसोदितं च स्वमा कायिकादीनि । स्वगतानि निमित्तानि शुभा-शुभफलं निवेदयन्ति ॥ २३३॥ २ क. ग. 'ततः कि' । ३. छ. ज. 'दशनोत्पा' स्वममिव मन्यमानस्य स्त्यानबेचजनावग्रहता। भवेद वा,म तुसा मनसः सा खलु श्रीनेन्द्रियादीनाम् ॥२३॥
SSSS
For Peso
Private Use Only