SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१३७॥ सुरयपडिवत्ति-रइसुह-गब्भाहाणाइ इहरहा होजा । सुमिणसमागमजुवईए, न य जओ ताई तो विफला ॥२३०॥ इतरथा- स्वमे सुरतक्रियया योऽसौ व्यञ्जनविसर्गः स यदि योषित्प्राप्त्यव्यभिचारी स्यात् , तदा सुरतोपभुक्तयुवतैरपि 'सु- बृहद्वत्तिः । रतक्रियाऽमुकेन सह मयाऽनुभूता' इत्येवंरूपा सुरतप्रतिपत्तिः स्यात् , तथा, रतिसुर्ख , गर्भाऽऽधानादिकं च भवेत् ; आदिशब्दादुदरवृद्धि-दोहद-पुत्रजन्मादिपरिग्रहः । यतश्च नैतानि तस्याः समुपलभ्यन्ते, अतो विफलैव सा खप्नसुरतक्रिया, विशिष्टस्य परिभुक्तकामिनीगर्भाधानादिफलस्याभावात् । इदमुक्तं भवति- न स्वप्ने योषित्प्राप्तिपूर्विका विशिष्टा सुरतक्रिया, नापि विशिष्टं गर्भाऽऽधानादिकं तत्फलं; या तु तीब्रवेदोदयाविर्भूताऽध्यवसायमात्रकृता निधुवनक्रिया सा व्यञ्जनविसर्गमात्ररूपेणैव फलेन फलवती, न विशिष्टेन, इति । तदपेक्षया सा 'विफला' इत्युच्यते । अतो यथोक्तविशिष्टफलाभावात् फलमात्राद् योपित्याप्स्यसिद्धेश्च न प्राप्यकारिता मनस इति भावः।। इति गाथार्थः ॥ २३०॥ पुनरप्याह परःनेणु सिमिणओ वि कोई सच्चफलो फलइ जो जहा दिहो। ननु सिमिणम्मि निसिद्ध किरिया किरियाफलाइंच॥२३॥ _ ननु स्वमोऽपि कश्चित् सत्यं फलं यस्याऽसौ सत्यफलो दृश्यते । कः, इत्याह- यो यथा येन प्रकारेण राज्यलाभादिना दृष्टस्तेनैव फलति-राज्यादिफलदायको भवतीत्यर्थः, तत् किमिति खप्नोपलब्धं मनसो मेरुगमनादिकं सत्यतया नेष्यते ? इति भावः । अत्रोत्तरमाह-'नन्वित्यादि' नन्वयुक्तोपालम्भोऽयम् , सर्वथास्वमसत्यत्वस्याऽस्माभिरनिषिध्यमानत्वात् । तर्हि किं निषिध्यते ?, इत्याह-खमे क्रिया मेरुगमनादिका, अध्वश्रम-कुसुमपरिमलादीनि क्रियाफलानि च, इत्येतद्द्वयमस्माभिः प्रागुक्तयुक्तः सत्यतया निषिद्धम् ।। इति गाथार्थः ॥ २३१ ॥ तर्हि किं तत्, यत् स्वमे भवद्भिर्न निषिध्यते ?, इत्याह जं पुण विण्णाणं तप्फलं च सिमिणे विबुद्धमेत्तस्स । सिमिणयनिमित्तभावं फलं च तं को निवारेइ ? ॥२३२॥ सुरतप्रतिपत्ति-रतिसुख-गर्भाधानादीतरथा भवेत् । स्वप्नसमागमयुबतेः, न च यतस्ताम्यतो विफला ॥ २३ ॥ २ प. छ. ज. 'द्धिदौहद' । नन स्वप्नकोऽपि कथित सखफलः फलति यो यथा रटा। ननु स्वमे निषिद्धं क्रिया क्रियाफलानि च ॥२३१॥४ प.छ. 'कुतः । ५.ग. 'ततः किरा ६ क. 'खप्ने या कि' ज. 'खप्नेऽपि कि' । . यत्पुनर्विज्ञानं तत्फलं च स्वप्ने विबुद्धमात्रस्य । स्वमकनिमित्तभावं फलं च तत् को निवारयति ॥ २३२॥
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy