________________
विशेषा० ॥१३९॥
CIORO
निषेद्धारः । सिद्धं तर्हि परस्य समीहितम् । सिध्येत् , यदि सा व्यञ्जनावग्रहता मनसो भवेत् । न पुनः सा तस्य । कस्य तर्हि सा, इत्याह-सा खलु प्राप्यकारिणां श्रोत्रादीन्द्रियाणां श्रवण-रसन-प्राण-स्पर्शनानामित्यर्थः, इदमुक्तं भवति- स्त्यानद्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति, कर्पूरादिकं जिघ्रतो घ्राणेन्द्रियस्य, आमिष-मोदकादिकं भक्षयतो रसनेन्द्रियस्य, कामिनीतनुलतादि स्पृशतः स्पर्शनेन्द्रियस्य व्यञ्जनावग्रहः संपद्यते; न तु नयन-मनसोः, बहि-क्षुरिकादिविषयकृतदाहपाटनादिप्रसङ्गेन तयोर्विषयमाप्त्यभावात् , तामन्तरेण च व्यञ्जनावग्रहासंभवादिति भावः ॥ इति गाथार्थः ।। २३४ ॥
आह- ननु स्त्यानर्द्धिनिद्रोदये स्वममिव मन्यमानः किं कोऽपि चेष्टां काश्चित् करोति, येन तत्करणे व्यञ्जनावग्रहः स्यात् ?, इत्याशक्य स्त्यानर्द्धिनिद्रोदयोदाहरणान्याह
पोग्गल-मोयग-दन्ते फरुसग-वडसालभंजणे चेव । थीणद्धियस्स एए आहारणा होति नायव्वा ॥ २३५ ॥
स्त्यानर्द्धिनिद्रोदयवर्तिन एतानि पौद्गलादीन्युदाहरणानि ज्ञातव्यानि भवन्ति । तद्यथा- 'पोग्गलेत्यादि ' तत्र समयपरिभाषया । | पौद्गलं मांसमुच्यते, तदुदाहरणं यथा- एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत् , स च मांसगृद्ध आमानि, पकानि, तलितानि, केवलानि, तीमनादिमध्यप्रक्षिप्तानि च मांसानि भक्षयति । अन्यदा च गुणातिशायिभिः स्थविरैः कैश्चित् प्रतिबोधितो दीक्षां कक्षीकृतवान् । तेन च ग्रामा-ऽनुग्रामं विहरता कदाचित् कचित् प्रदेशे मांसलुब्धैः कैश्चिद् विकृत्यमानो महिषः समीक्षाश्चके । तं चे संवीक्ष्य तदामिषभक्षणे तस्याऽप्यभिलाषः समजायत । स चाभिलाषोऽस्य भुञ्जानस्य विचारभूमी गतस्य चरमां सूत्रपौरुषी, प्रतिक्रमणक्रियां , प्रादोषिकपौरुषी च कुर्वतो न निवृत्तः किं बहुना , तदभिलाषवत्येव प्रसुप्तोऽसौ । ततः स्त्यानर्द्धिनिद्रोदयो जातः । तदुदये चोत्थाय ग्रामाद् बहिर्महिपमण्डलमध्ये गत्वाऽन्यं महिषमेकं विनिहत्य तदामिषं भक्षितवान् । तदुवरितशेषं च समानीयोपाश्रयोपरि क्षिप्त्वा प्रसुप्तः । समुत्थितश्च प्रत्युषसि स 'मयेत्थंभूतः स्वमो दृष्टः' इत्येवं गुर्वन्तिक आलोचयामास । साधुभिश्वोपाश्रयोपरि तदामिषमदृश्यत । ततः 'स्त्यानद्धिनिद्रोदयोऽस्याऽस्ति' इति ज्ञातम् । तथा च संघेन लिङ्गमपहृत्य विसर्जितोऽसौ ।। इति स्त्यानार्द्धिनिद्रोदये प्रथममुदाहरणमिति ॥ १॥ अथ द्वितीयं मोदकोदाहरणमुच्यते, यथा- एकः कोऽपि साधुर्भिक्षा पर्यटन् कचिद् गृहे पटलकादिव्यवस्थापिता तिप्रचुरान्
१ पौद्गल-मोदक-दन्ताः कुलाल-बटशालभजने चैव । स्त्यानरेतान्युदाहरणानि भवन्ति ज्ञातव्यानि ॥ २३५ ॥ ३ ज. 'वत्तिनि ए'। ३ घ. छ. ज. 'श्चित् कृ। ४ क. ग. 'च समीक्ष्य'। ५५. छ. ' नपि प्र'।
सहस580amoralioreone
॥१३९॥
J
antema
For Don Pe Use Only
wMR.Janeitrary.org