________________
विशेषा०
बृहद्वृत्तिः ।
॥१४॥
सुरभिस्निग्धमधुरमनोज्ञान् मोदकानद्राक्षीत् । तेन चावस्थितेन ते सुचिरमुद्दीक्षिताः। न च किमपि तन्मध्याल्लब्धम् । ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप | स्त्यानर्द्धिनिद्रोदये च रजन्यां तद्गृहं गत्वा, स्फोटयित्वा कपाटानि, मोदकान् स्वेच्छया भक्षयित्वा, उद्वरितांस्तु पतद्ग्रहके क्षिप्त्वोपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः । उत्थितेन च तथैवाऽऽलोचितं गुरूणाम् । ततः प्रत्युपेक्षणासमये भाजनादि प्रत्युपेक्षमाणेने साधुना पतद्ग्रहके दृष्टास्ते मोदकाः । ततो गुर्वादिभिर्जातोऽस्य स्त्यानर्द्धिनिद्रोदयः । तथैव च संघेन लिङ्गपाराश्चिकं दत्त्वाऽयमपि विसर्जितः ॥ २॥
दन्तोदाहरणं तृतीयमुच्यते,यथा- एकः साधुर्दिवा द्विरदेन खेदितः कथमपि पलाय्योपाश्रयमागतः । तं च दन्तिनं प्रत्यविच्छिभकोप एव निशि प्रसुप्तः । स्त्यानद्धिनिद्रोदयश्च जातः । तदुदये च वज्रऋषभनाराचसंहननवतः केशवार्धवलसंपन्नता समये निगद्यते । अतो नगरकपाटानि भक्त्वा मध्ये गत्वा तं हस्तिनं व्यापाद्य दन्तद्वयमुत्पाट्य स्खोपाश्रयद्वारे क्षिप्त्वा सुप्तः । प्रबुद्धेन च 'स्वमोऽयम् इत्यालोचितम् । दन्तदर्शने च ज्ञातः स्त्यानदिनिद्रोदयः। तथैव च लिङ्गं गृहीत्वा संघेन विसर्जितः॥३॥
फरुसगशब्देन समयप्रसिद्धया कुम्भकारोऽभिधीयते, तदुदाहरणं चतुर्थमुच्यते- एकः कुम्भकारो महति गच्छे प्रवजितः । | अन्यदा चै सुप्तस्याऽस्य स्त्यानद्धिनिद्रोदयो जातः । ततोऽसौ पूर्वं यथा मृत्तिकापिण्डानत्रोटयत् , तथा तदभ्यासादेव साधूनां शिरांसि त्रोटयित्वा कबन्धैः सहवैकान्ते उज्झाञ्चकार । ततः शेषाः केचन साधवोडपमृताः। प्रभाते च ज्ञातं सम्यगेव सर्वं तच्चेष्टितम् । संघेन तथैव विसर्जितः॥४॥
अथ वटशाखाभञ्जनोदाहरणं पश्चममुच्यते, यथा- कोऽपि साधुामान्तराद् गोचरचर्या विधाय प्रतिनिवृत्तः । स चौष्ण्याऽभिहतो भृतभाजनस्तृषितो बुभुक्षितश्छायार्थी मार्गस्थो वटवृक्षस्याऽधस्तादागच्छन्नतिनीचैर्वर्तिन्या तच्छाखया मस्तके घट्टितः, गाद च परितापितः, अव्यवच्छिन्नकोपश्च प्रसुप्तः । स्त्यानर्द्धिनिद्रोदये रात्रौ गत्वा बटशाखां भक्त्वोपाश्रयद्वारे क्षिप्त्वा पुनः प्रसुप्तः। 'स्वमो दृष्टः' इत्यालोचिते, स्त्यानयुदये च ज्ञाते लिङ्गापनयनतः संघेन विसर्जित इति ॥५।। एतान्युदाहरणानि विशेषतो निशीथादवसेयानि॥ इति गाथार्थः ॥ २३५॥
तदेवं ''गंतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे वा' इत्यादिपूर्वपक्षगाथायाः प्रथमाधमपाकृतम् । सांपतं 'सिद्धमियं लोयम्मि वि अमुग्गत्थगओ मणो मे त्ति' एतदुत्तरार्धमपाकुर्वनाह-- १. 'नानि प्र'। २ ग. प. छ. ज. 'न तेन
साज , 'च प्रसुप्तस्य स्त्या' प.छ. 'च सुप्तस्य स्त्या' । ४ गाथा २१३ ।
॥१४॥
Educate
For Peso
Private Use Only