SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वृत्तिः । ॥१४॥ जह देहत्थं चक्खं जं पइ चंदं गयं ति, न य सच्चं । रूढं मणसो वि तहा न य रूढी सच्चिया सव्वा ॥२३६॥ यथा देहस्थ देहादनिर्गतमपि चक्षुः 'चन्द्रं गतम्' इति जल्पति लोकः, न च तत् सत्यम् , चक्षुषो वह्न्यादिदर्शनेन तत्कृतदाहादि- प्रसङ्गात् । तथा तेनैव प्रकारेण मनसोपि निर्निबन्धनं रूढामिदं यदुत- 'अमुत्र गतं मे मनः' इति । रूढिरपि सत्या भविष्यति, इत्याहन च रूढिः सर्वाऽपि सत्या, "वटे बटे वैश्रवणश्चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वगो मधुसूदनः " ॥१॥ इत्यादिकाया असत्याया अपि दर्शनात् ॥ इति गाथार्थः ॥ २३६ ॥ तदेवं विषयमाप्तौ निषिद्धायां मनसोऽसद्ग्रहममुश्चन् परः प्रकारान्तरेणापि तस्य व्यञ्जनावग्रहं प्रतिपादयन्नाह-- विसयमसंपत्तस्स वि संविजइ वंजणोग्गहो मणसो । जमसंखेज्जसमइओ उवओगो जं च सव्वेसु ॥२३७॥ . समएसु मणोदव्वाइं गिण्हए वंजणं च दव्वाइं । भणियं संबंधो वा तेण तयं जुज्जए मणसो ॥ २३८ ॥ विषयं मेरुशिखरादिकं, जला-ऽनलादिकं वा, असंप्राप्तस्याऽपि- अमाप्य गृहृतोऽपीत्यर्थः । किम् ?, इत्याह- संविद्यते युज्यते व्यञ्जनावग्रहो मनसः । कुतः १, इत्याह- 'जमसंखेजसमइओ उवओगो' यद् यस्मात् कारणात् " च्यवमानो न जानाति" इत्यादिवचनात् सर्वोऽपि च्छद्मस्थोपयोगोऽसंख्येयैः समयनिर्दिष्टः सिद्धान्ते, न त्वेक-द्वयादिभिः । 'जं च सम्वेसु समयेसु मणोदव्वाई गिण्हए त्ति' यस्माच्च तेषूपयोगसंबन्धिष्वसंख्येयेषु समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः द्रव्याणि च, तत्संबन्धो वा मागत्रैव भवद्भिर्व्यञ्जनमुक्तम् , तेन कारणेन तत् तादृशं द्रव्यं, तत्संबन्धो वा व्यञ्जनं व्यञ्जनावग्रह इति हृदयम् , युज्यते घटते मनसः । यथा हि श्रोत्रादीन्द्रियेणाऽसंख्येयान् समयान् यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्संबन्धो वा व्यञ्जनावग्रहः, तथाऽत्राऽप्यसंख्येयसमयान् यावद् गृह्यमाणानां मनोद्रव्याणां, तत्संबन्धस्य वा किमिति पक्षपातं परित्यज्य मध्यस्थैभूत्वाऽसौ नेष्यते , इति किल परस्याभिप्रायः ॥ इति गाथाद्वयार्थः ।। २३७॥ २३८ ॥ तदेवं विषयासंघाप्तावपि भजयन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः, सांपत विषयसंप्राप्स्यापि तस्य तं समर्थयबाह । यथा देहस्थं चक्षुर्यत् प्रति चन्द्र गतमिति, न च सत्यम् । रूदं मनसोऽपि तथा न च रूदिः सत्यिका (सत्या) सर्वा ॥ २३६ ॥ २ क. घ. छ. ज. 'मह'। ३ विषयमसंप्राप्तस्यापि संविचते व्यजनावग्रहो मनसः । यदसंख्येयसमयिक उपयोगो यच सर्वेषु ॥ २३७ ॥ समषेषु मनोहग्याणि गृहाति व्यञ्जनं च दग्याणि । भगितं संबन्धो वा तेन तद् युज्यते मनसः ॥ २३॥ ॥१४॥ For Personal and P enny
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy