SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ देहादणिग्गयस्स वि सकायहिययाइयं विचिंतयओ । नेयस्स वि संबंधे वंजणमेवं पि से जुत्तं ॥ २३९ ॥ विशेषा. देहाच्छरीरादनिर्गतस्यापि मेर्वाद्यर्थमगतस्यापि स्वस्थानस्थितस्यापीत्यर्थः, स्वकाये, स्वकायस्य वा हृदयादिकमतीव संनि॥१४२॥ हितत्वादतिसंबद्धं विचिन्तयतो मनसो योऽसौ ज्ञेयेन स्वकायस्थितहृदयादिना संबन्धस्तत्माप्तिलक्षणस्तस्मिन्नपि ज्ञेयसंबन्धे, न केवलं 'विसयमसंपत्तस्स वि संविज्जई' इत्याद्यनन्तरसमर्थितन्यायेन, इत्यपिशब्दार्थः । किम् ?, इत्याह-व्यञ्जनं व्यञ्जनावग्रहः 'से' तस्य मनसो युक्तं घटमानकं, एवमप्यनयाऽपि प्राप्यकारित्वभङ्ग्या ।। इति गाथार्थः ।। २३९ ।।। तदेवं प्रकारद्वयेन मनसः परेण व्यञ्जनावग्रहे समर्थिते, आचार्यः प्रथमपक्षे तावत् प्रतिविधानमाहगिज्झस्स वंजणाणं जं गहणं वंजणोग्गहो स मओ। गहणं मणो, न गिझं को भागो वंजणे तस्स? ॥ २४०॥ इह — विसयमसंपत्तस्स वि संविज्जइ' इत्यादि यत्परेणोक्तम् , तद् निजाऽसत्पा-परकीयसत्पक्षविषयप्रसर्पन्महाराग-द्वेषग्रहग्रस्तचेतोविह्वलतासूचकमेवावगन्तव्यम् , असंबद्धत्वात् , तथाहि- श्रोत्र-घ्राण-रसन-स्पर्शनेन्द्रियचतुष्टयग्राह्यस्य शब्द-गन्धादि विषयस्य संबन्धिनां व्यञ्जनानां तद्रूपपरिणतद्रव्याणां यद् ग्रहणमुपादानं स व्यञ्जनावग्रहोऽस्माकं संमत इति परोऽपि जानात्येव, प्रागसकृत्प्रतिपादितत्वादिति । मनोद्रव्याण्यपि तर्हि मनसो ग्राह्याणि भविष्यन्ति, ततस्तस्यापि श्रोत्रादेरिव व्यञ्जनावग्रहो भविष्यति; अतः किमसंबद्धम् , इत्याह- 'गहणं मणो न गिज्झं ति' चिन्ताद्रव्यरूपं मनो न ग्राह्यम् , किन्तु ग्रहणं गृह्यतेऽवगम्यते शब्दादिरोंऽनेनेति ग्रहणम्- अर्थपरिच्छेदे करणमित्यर्थः । ग्राह्यं तु मेरुशिखरादिकं मनसः सुमतीतमेव । अतः को भागः कोऽवसरस्तस्य करणभू तस्य मनोद्रव्यराशेर्व्यञ्जने व्यञ्जनावग्रहेऽधिकृते ?, न कोऽपीत्यर्थः । ग्राह्यवस्तुग्रहणे हि ब्यञ्जनावग्रहो भवति । न च मनोद्रव्याणि ग्राह्यKN रूपतया गृह्यन्ते, किन्तु करणरूपतया, इत्यसंबद्धमेव पेरोक्तम् ॥ इति गाथार्थः ॥ २४ ॥ ___या च 'देहदिणिग्गयस्स वि सकायहिययाइयं' इत्यादिना मनसः प्राप्यकारिता प्रोक्ता, साऽपि न युक्ता, खकायहृदयादिको हि मनसः स्वदेश एव, यच्च यस्मिन् देशेऽवतिष्ठते, तत् तेन संबद्धमेव भवति, कस्तत्र विवादः ?, किं हि नाम तद् वस्त्वस्ति, यदात्मदेशेनाऽसंबद्धम् । एवं हि प्राप्यकारितायामिष्यमाणायां सर्वमपि ज्ञानं प्राप्यकार्येव, सर्वस्याऽपि तस्य जीवेन संबद्धत्वात् । तस्मात् १ देहादनिर्गतस्यापि स्वकायहृदयादिकं विचिन्तयतः । ज्ञेयस्याऽपि संबन्धे व्यञ्जनमेवमपि तस्य युक्तम् ॥ २३९॥ २ गाथा २३७॥ ३ ग्राह्यस्य व्यञ्जनानां यद् ग्रहणं व्यानावग्रहः स मतः । ग्रहणं मनः, न माझं को भागो व्याने तस्य ॥२४०॥ ४ घ.छ.'क्षवि'। ५ क. ग. ज. 'परेणोक्त'। ६गाथा२३९॥ १४२॥ Jan Education Internat For Personal and Private Use Only www.jaineitrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy