SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ बृहद्वात्तिः। पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वा-आप्यकारित्वचिन्ता युक्ता । स च मनसाप्राप्त एवं गृह्यते, इति न तत्र व्यभिचारः । भवतु विशेषा०वा मनसः स्वकीयहृदयादिचिन्तायां प्राप्यकारिता, तथापि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाह॥१४३॥ तेइसचिन्तणे होज वंजणं जइ तओ न समयम्मि। पढमे चेव तमत्थं गेण्हेज न वंजणं तम्हा ॥२४॥ स चासौ स्वकायहृदयादिदेशश्च तस्य चिन्तनं तस्मिन् सति स्याद् मनसो व्यञ्जनं व्यञ्जनावग्रहः । यदि किम् ?, इत्याह'जइ तओ न समयम्मि पढमे चेव तमत्थं गेण्हेज त्ति' यदि तद् मनः प्रथम एव समये तं स्वकीयहृदयादिकमर्थं न गृह्णीयाद् नावगच्छेदिति । एतच्च नास्ति, यस्माद् मनसः प्रथमसमय एवार्थाऽवग्रहः समुत्पद्यते, न तु श्रोत्रादीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः, तस्य हि क्षयोपशमापाटवेन प्रथममर्थानुपलब्धिकालसंभवाद् युक्तो व्यञ्जनावग्रहः, मनसस्तु पटुक्षयोपशमत्वाच्चक्षुरिन्द्रियस्येवाऽानुपलम्भकालस्यासंभवेन प्रथममेवाऽर्थावग्रह एवोपजायते । अत्र प्रयोगः- इह यस्य ज्ञेयसंवन्ये सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः, नास्ति चार्थसंबन्धे सत्यनुपलब्धिकालो मनसः, तस्माद् न तस्य व्यञ्जनावग्रहः, यत्र स्वयमभ्युपगम्यते न तस्य ज्ञेयसबन्धे सत्यनुपलब्धिकालासंभवः, यथा श्रोत्रस्येति व्यतिरेकः । तदेवं परोक्तपक्षद्वयेऽपि मनसो व्यञ्जनावग्रहं निराकृत्योपसंहरति- 'न बंजणं तम्ह त्ति' तस्मादुक्तप्रकारेण मनसो न व्यञ्जनावग्रहसंभवः ।। इति गाथार्थः ॥ २४१ ॥ कस्माद् न मनसो व्यञ्जनावग्रह इत्याशयावार्थे विशेषवतीमुपपत्तिमाह सैमए समए गिण्हइ दव्वाइं जेण मुणइ य तमत्थं । जं चिंदिओपओगे वि वंजणावग्गहेऽतीते ॥२४२॥ होइ मणोवावारो पढमाओ चेव तेण समयाओ। होइ तदत्थग्गहणं तदण्णहा न प्पवत्तेज्जा ॥ २४३ ॥ 'समए समए त्ति' प्रतिसमयमित्यर्थः, इदमुक्तं भवति- मनोद्रव्यग्रहणशक्तिसंपन्नो जीवः कस्यचिदर्थस्य चिन्तावसरे प्रतिसमयं मनोद्रव्याणि गृह्णाति, तं च चिन्तनीयमर्थ प्रतिसमयं 'मुणइ त्ति' जानाति येन कारणेन, तेन प्रथमसमयादेव भवति तस्या चिन्तनीयार्थस्य ग्रहणमिति द्वितीयगाथायां संबन्धः, प्रथमसमयादेवार्थावबोधः प्रवर्तत इत्यर्थः, अर्थानुपलब्धिकालस्त्वेकोऽपि समयो १ तद्देशचिन्तने भवेद् व्यजनं यदि ततो न समये । प्रथम एव तमथै गृहीयाद् न व्यञ्जनं तस्मात् ॥ २४॥ २ समये समये गृह्णाति बन्याणि येन जानाति च तदर्थम् । यश्चिन्द्रियोपयोगेऽपि व्यञ्जनावग्रहेऽतीते ॥ २४२ ॥ भवति मनोव्यापारः प्रथमादेव तेन समयात् । भवति तदर्थग्रहणं तदन्यथा ने प्रवर्तेत ॥ २३ ॥ ॥१४३॥
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy