SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ E बृहदार ER नास्ति, अतो न मनसो व्यञ्जनावग्रहसंभव इति भावः ।। आह-नन्वपवरकादिव्यवस्थितो यदेन्द्रियव्यापाररहितः केवलेन मनसाऽर्थान् विशेषा०पर्यालोचयति, तदा मा भूद् मनसो व्यञ्जनावग्रहः, यस्तु श्रोत्रादीन्द्रियव्यापारे मनसोऽपि व्यापारस्तत्र प्रथममनुपलब्धिकालस्य भवद्भि- रपीप्यमाणत्वात् किमिति' व्यञ्जनाद् मनसो व्यञ्जनावग्रहो नेष्यते ?, इत्याशङ्कयाह- 'जं चिंदिओवओगे वि वंजणावग्गहेऽतीते होइन ॥१४४॥ मणोवावारो ति' यच्च यस्माच्च कारणादिन्द्रियस्य श्रोत्रादेरुपयोगेऽपि शब्दाद्यर्थग्रहणकालेऽपीत्यर्थः । किम् ?, इत्याह-व्यञ्जनावग्रहेऽतीते सति मनसो व्यापारो भवति । इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथममर्थावग्रह एव व्यापारः, किन्तु श्रोत्रादीन्द्रियोपयोगकालेऽपि तथैव, तथाहि-श्रोत्रादीन्द्रियोपयोगकाले व्याप्रियते मनः, केवलमर्थावग्रहादेवाऽऽरभ्य, न तु व्यञ्जनावग्रहकाले । अर्थाऽनवबोधस्वरूपो हि व्यञ्जनावग्रहः, तदवबोधकारणमात्रत्वात् तस्य, मनस्त्वर्थावबोधरूपमेव, मनुतेऽर्थान् , मन्यन्तेऽर्था अनेनेति वा मन इति सान्वाभिधानाभिधेयत्वात् । किञ्च, यदि व्यञ्जनावग्रहकाले मनसो व्यापारः स्यात् तदा तस्यापि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतेर्विशीर्येत । तस्मात् प्रथमसमयादेव तस्याऽर्थग्रहणमेष्टव्यम् । अन्यथा किमत्र बाधकम् , इत्याह- 'तदण्णहा न प्पवत्तेज त्ति' यदि हि प्रथमसमयादेव मनसोऽर्थग्रहणं नेष्यते तदा तस्य मनस्त्वेन प्रवृत्तिरेव न स्यादनुत्पत्तिरेव स्यादित्यर्थः । यथा EF हि स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नान्यथा; यथा च स्वविषयभूताननवबुध्यमानान्येवाऽवध्यादिज्ञानान्यात्मलाभं लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति; एवं स्वविषयभूतानान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति, अन्यथाऽवध्यादिवत् तस्य प्रवृत्तिरेव न स्यात् । तस्मात् तस्याऽनुपलब्धिकाली नास्ति, तथा च न व्यञ्जनावग्रह इति स्थितम् । न चैतत् स्वमनीपिकया ERE युक्तिमात्रमुच्यते, आगमेऽपि व्यञ्जनावग्रहेऽतीत एवेन्द्रियोपयोगे मनसो व्यापाराभिधानात् , तथा चोक्तं कल्पभाष्ये “अत्थाणंतरचारी चित्तं निययं तिकालविसयं ति । अत्थे उ पड्डुप्पण्णे विणिओगं इंदियं लहइ " ॥ १ ॥ अत्र व्याख्या- अर्थे शब्दादौ श्रोत्रादीन्द्रियव्यञ्जनावग्रहेण गृहीतेऽनन्तरमावग्रहादारभ्य चरति प्रवर्तते, इत्यर्थानन्तरचारि मनः, न तु व्यञ्जनावग्रहकाले तस्य प्रवृत्तिरिति भावः, त्रिकालविषयं चित्तं, सांपतकालविषयं त्विन्द्रियम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ २४२ ॥ २४३ ॥ अमुमेव मनसोऽनुपलब्धिकालासंभव सयुक्तिकं भावयन्नाह १ क. ग. 'तिम'। २ क. ग. 'ऽर्थावग्रहो ने। ३ क. ग. 'स्मान्न त'। ४ क. ग. 'खोऽस्ति' । ५ अर्थानन्तरचारि चित्तं नियतं त्रिकालविषयमित्ति । अर्थे तु प्रत्युत्पन्ने विनियोगमिन्द्रियं लभते ॥१॥ ॥१४४॥ For Personal and Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy