________________
विशेषा
॥१४५॥
नेयोउ च्चिय जसो लहइ सरूवं पईव-सदं व्य । तेणाजुत्तं तस्सासंकप्पियवंजणग्गहणं ॥२४॥ प्रतिसमयं मनोद्रव्योपादानं ज्ञेयार्थावगमश्च मनसो भवत्येव, न पुनस्तस्यानुपलब्धिकालः संभवति । कुतः?, इत्याह- यद् यस्मात् कारणात् 'सो' इति प्राकृतशैल्या नपुंसकमपि मनः संवध्यते, ज्ञायत इति ज्ञेयं चिन्तनीयं वस्तु तस्मादेव, स्वरूपमात्मसत्तास्वभावं लभते, नाज्यतः। ततो यदि तदेव ज्ञेयं नावगच्छेत् , तर्हि तस्मादुत्पत्तिरप्यस्य कथं स्यात् । इदमुक्तं भवति-सान्वर्थक्रियावाचकशब्दाभिघेया हि मनाप्रभृतयः, तद्यथा-मनुते मन्यते वा मनः, प्रदीपयतीति प्रदीपः, शब्दयति भाषत इति शब्दः, दहतीति दहनः, तपतीति तपनः । एतानि च विशिष्टक्रियाकर्तृत्वप्रधानानि मनाप्रभृतिवस्तूनि यदि तामेवार्थमनन-प्रदीपन-भाषणादिकामर्थक्रिया न कुयुः, तदा तेषां स्वरूपहानिरेव स्यात् । तस्माद् यथा प्रदीपनीय-शब्दनीयवस्त्वपेक्षया प्रदीप-शब्दाभिधानप्रवृत्तेः प्रदीप-शब्दयोरर्थयोरप्रदीपनमशब्दनं चायुक्तम् तथा मनसोऽपि मननीयवस्तुमननादेव मनोऽभिधानप्रवृत्तेस्तदमननं न युक्तम् । ततः किम् ?, इत्याह-येनैवम् , तेनाऽसंकल्पितान्यनालोचितानि, अनवगतानीति यावत् , असंकल्पितानि च तानि शब्दादिविषयभावेन परिणतद्रव्यरूपाणि व्यञ्जनानि च तेषां ग्रहणमसंकल्पितव्यञ्जनग्रहणं तस्य मनसोऽयुक्तम् , किन्तु संकल्पितानामेवार्थावग्रहद्वारेणाऽवगतानामेव तेषां शब्दादिद्रव्याणां ग्रहणं युक्तम् । तस्माद् न मनसोऽनुपलब्धिकालोऽस्ति, तथा च न व्यञ्जनावग्रहसंभव इति स्थितम् ॥ इति गाथार्थः॥२४४॥ तदेवं नयन-मनसोविस्तरेणाप्राप्यकारितायां साधितायां नयनपक्षेऽद्यापि दूषणशेषमुत्पश्यन् परः पाह
जइ नयणिन्दियमत्तकारि सव्वं न गिण्हए कम्हा ? । गहणा-गहणं किंकयमपत्तविसयत्तसामन्ने? ॥२४५॥
याक्तयुक्तिभ्यो नयनेन्द्रियमप्राप्तकारि, तर्हि सर्वमपि त्रिभुवनान्तर्वर्तिवस्तुनिकुरम्ब कस्माद् न गृह्णाति, अप्राप्तत्वाविशेषात् । एतदेव व्यक्तीकरोति- अप्राप्तो विषयो यस्य तदप्राप्तविषयं तद्भावोप्राप्तविषयत्वं तस्मिन् सामान्येऽविशिष्टेऽपि सति यदिदं कस्यचिदर्थस्य ग्रहण, कस्यचिदग्रहणं, तत् किंकृतं किंनिबन्धनम् ?, नेह किञ्चिद् निबन्धनमुत्पश्याम इति भावः ।। इति गाथार्थः ॥ २४५ ॥ तस्माद् भो आचार्य । तस्य चक्षुषो विषयपरिमाणाऽनयत्यमामोति, इत्येतदेवाहविसयपरिमाणमनिययमपत्तविसयं ति तस्स मणसो व्व । मणसो वि विसयनियमो न कमइ जओ स सव्वत्थ॥२४६॥
१ शेवादेव यत् तल्भते स्वरूपं प्रदीप-शब्दाविव । तेनाऽयुक्तं तस्याऽसंकल्पितव्यजनग्रहणम् ॥ २४४ ॥ २ घ. छ. ज. 'णं म'। ३ यदि नयनेन्द्रियमप्राप्तकारि, सर्वं न गृह्णाति कस्मात् । ग्रहणा-ऽग्रहणं किंकृतमप्राप्तविषयत्वसामान्ये ॥ २४५ ॥ ४ विषयपरिमाणमनियतमप्राप्तविषयामिति तस्य मनस इव । मनसोऽपि विषयनियमो न कामति यतः स सर्वत्र ।। २४६ ।।
॥१४५॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ory