________________
विशेषा
॥१९४॥
बाधकं भवेत् : किन्तु ज्ञाना-ऽज्ञानादिरूपा सामान्येन मतिरेव विचार्यते, इति दर्शयन्नाह
अहवा जह सुयनाणावसरे सामण्णदेसणं भणियं । तह मइनाणावसरे सव्वमइनिरूवणं कुणति ॥ ३२८ ॥
अथवा यथा श्रुतज्ञानविचारावसरे ज्ञानरूपस्य, अज्ञानरूपस्य च श्रुतस्य सामान्यदेशनं भणितम् , तथा मतिज्ञानावसरे सर्वस्या अपि निर्णयरूपायाः, संशय-विपर्यासा-ऽनध्यवसायात्मिकायाश्चः ज्ञानरूपायाः, अज्ञानरूपायाश्च मतनिरूपणं करोत्याचार्यः।। इति गाथाक्षरार्थः ॥
भावार्थस्त्वयम्- इहादौ 'आभिणिवोहियनाणं सुयनाणं' इत्यादिगाथायां श्रुतज्ञानं तावज्ज्ञाना-ज्ञानोभयरूपमपि भणितम् , न पुनः सम्यक्श्रुतमेव । कथं पुनरिदं ज्ञायते ?, इति चेत् । उच्यते- 'अक्खर सन्नी सम्म' इत्यादिगाथयाऽभिधास्यमानानां चतुर्दशानां श्रुतभेदानामिह संग्रहात् , तेषु च मध्ये मिथ्याश्रुतस्याऽपि पठनात् । ततश्च यथा लाघवार्थमिह ज्ञाना-ज्ञानोभयरूपमपि श्रुतज्ञानमुक्तम् , तथेहापि मतिज्ञानप्रतिपादनावसरे संशय-विपर्यासा-ऽनध्यवसाय-निर्णय-ज्ञाना-ज्ञानात्मिकायाः सर्वस्या अपि मतेः सामान्येनैव निरूपण क्रियते, न तु ज्ञानपश्चकाधिकारात् सम्यग्दृष्टिसंबन्धिन्या एव, व्यवहारिजनप्रमाणा-ऽप्रमाणचिन्तया निर्णयरूपाया एव वा, इति भावः। | ततश्चाऽवग्रहादयः संशयादिरूपा वा भवन्तु, निर्णयरूपा वा, ज्ञानं वो भवन्तु, अज्ञानं वा, न नः किश्चित् सूयतेः श्रुतवल्लाघवार्थं 'मननं मतिः' इति मतिमात्रस्यैवेह विचारयितुमिष्टत्वात् , तस्य च संशयादिष्वपि घटनात् । ततश्च 'नर्नु संदिद्ध संसय-विवज्जया' इत्यादि यदुक्तं तत्सर्वमस्माकमवाधकमेवेति भावः ॥ इति गाथार्थः ॥ ३२८॥
ननु भवतु सामान्येन सर्वस्या अपि मतेर्निरूपणमिदम् , किन्तु ज्ञाना-ऽज्ञानचिन्तायां किमिह ज्ञानम् ?, किं चाऽज्ञानम् ?, इति निवेद्यताम् , इत्याशङ्कचाह
ऍसा सम्माणुगया सव्वा नाणं विवज्जए इयरं । अविसेसिआ मइ च्चिय जम्हा निविट्ठमाईए ॥ ३२९ ॥ एषा सामान्येन निर्दिष्टा मतिः सम्यक्त्वानुगता सम्यग्दृष्टेः संबन्धिनी सर्वाऽपि संशयादिरूपा, निश्चयरूपा वा ज्ञानमेव । विपर्यये त्वज्ञानम्-मिथ्यादृष्टिसंवन्धिनी सर्वाऽप्यज्ञानमित्यर्थः । कुतः पुनरिदं ज्ञायते ?, इत्याह- 'जम्हा निदिमाईए त्ति' यस्मादादावव
, अथवा यथा श्रुतज्ञानावसरे सामान्यदेशनं भणितम् । तथा मतिज्ञानावसरे सर्वमतिनिरूपणं करोति ॥३२८॥ २ गाथा ७९ । ३ अक्षरं सज्ञि सम्यक् । ४ क. ग. 'वा अ'। ५ गाथा ३१३ । ६ घ.छ.ज.'णु'। ७ एषा सम्पगनुगता सर्वा ज्ञानं विपर्यय इतरत् । अविशेषिता मतिरेव यस्माद् निर्दिष्टमादौ ॥ ३२९ ॥
॥१९४||
For Personal and Private Use Only