________________
विशेषा०
बृहद्वात्तः।
॥१६६॥
न्त्वपायस्य कारणमवग्रहादयः, कारणे च योग्यतया कार्यस्वरूपमस्ति, इत्युपचारतस्तेऽपि बह्वादिग्राहकाः पोच्यन्ते, इत्यदोषः। यद्येवम् , तर्हि वयमप्यपायगतं विशेषज्ञानमर्थावग्रहेऽप्युपचरिष्याम इति । एतदेवाह- 'अहेत्यादि' अथोक्तन्यायेनोपचारं कृत्वा विशेषग्राहकोऽर्थावग्रहः प्रोच्यते । नैतदेवम् , यतो मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । न चैवमुपचारे किश्चित् प्रयोजनमस्ति । " तेणं सद्दे ति उग्गहिए" इत्यादिसूत्रस्य यथाश्रुतार्थनिगमनं प्रयोजनमिति चेत् । न, 'सद्दे ति भणइ वत्ता' इत्यादिप्रकारेणाऽपि तस्य निगमितत्वात् । सामर्थ्यव्याख्यानमिदम् , न यथाश्रुतार्थव्याख्यति चेत् । तर्हि यापचारेणाऽपि श्रौतोऽर्थः सूत्रस्य व्याख्यायत इति तवाभिप्रायः, तर्हि यथा युज्यत उपचारः, तथा कुरु, न चैवं क्रियमाणोऽसौ युज्यते, यतः 'सिंहो माणवकः"समुद्रस्तडागः' इत्यादाविव किश्चित्साम्ये सत्ययं विधीयमानः शोभते । न चैतत्सामायकेऽर्थावग्रहे-ऽसंख्येयसामयिकं विशेषग्रहणं कथमप्युपपद्यते । तर्हि कथमयमुपचारः क्रियमाणो घटते ?, इति चेत् । अहो ! सुचिरादुपसन्नोऽस्ति । ततः शृणु समाकर्णयाऽवहितेन मनसा, सोऽपि यथा युज्यते तथा कथयामि- 'सद्दे त्ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं सूत्रम् । यदि चौपचारिकेणाऽप्यर्थेन भवतः प्रयोजनम् , तर्हि सोऽपि यथा घटमानकस्तथा कथ्यत इत्यपिशब्दाभिप्रायः॥ इति गाथार्थः ।। २८१॥ ___ यथाप्रतिज्ञातमेव संपादयन्नाह
सामण्णमेत्तग्गहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ २८२॥ सो पुणरीहा-ऽवायावेक्खाओ वग्गहो त्ति उवयरिओ । एस्सविसेसावेक्खं सामण्णं गेण्हए जेणं ॥ २८३ ॥
तत्तोऽणंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामण्ण-विसेसावेक्खा जावंतिमो भेओ ॥ २८४ ॥
व्याख्या- इहैकसमयमात्रमानो नैश्चयिको निरुपचरितः प्रथमोऽर्थावग्रहः । कथंभूतः, इत्याह- सामान्यमात्रस्याऽव्यक्तनिर्देश्यस्य वस्तुनो ग्रहणं सामान्यवस्तुमात्रग्राहक इत्यर्थः, सामयिकानि हि ज्ञानादिवस्तूनि परमयोगिन एव निश्चयवेदिनोऽवगच्छन्तीति
सेन शब्द इत्यवगृहीतः । २ गाथा २५३ । ३ क. ग. 'निर्गमि' घ. 'निमित्तत्वा'। । सामान्यमानमहर्ण नैश्चयिका समयमवग्रहः प्रथमः । ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः ॥ २८२ ॥ स पुनराहा-उपायापेक्षातोऽवग्रह इत्युपचरितः । एष्यविशेषापेक्षं सामान्यं गृह्यते येन ॥ २३ ॥ ततोऽनन्तरमौदा ततोऽपायश्च तद्विशेषस्य । इति सामान्य-विशेषापेक्षा यावदन्तिमो भेदः ॥ २८५ ॥
॥१६६॥
Jan Education interna
For Personal and Private Use Only
www.jainelibrary.org