SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ बृहद्रतिः । नैकसमयमात्रमान एवाऽर्थावग्रहः, किन्तु चिरकालिकोऽपि न हि समयमात्रमानतयैकरूपे तस्मिन् विप्र-चिरग्रहणविशेषणमुपपद्यत विशेषा० इति भावः। तस्मादेतद्विशेषणवलादसंख्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा, बहूनां श्रोतुणामविशेषेण प्राप्तिविषयस्थे शह ER भेर्यादिबहुतूर्यनिर्घोपे क्षयोपशमवैचित्र्यात कोऽप्यवर अवगृहाति, सामान्य समुदिततूर्यशब्दमात्रमवगृहातीत्यर्थः । अन्यस्तु बहवन हाति, शङ्क-भयोदितूर्यशब्दान् भिन्नान् बहून् गृहातीत्यर्थः । अन्यस्तु स्त्री-पुरुषादिवायत्व-स्निग्ध-मधुरत्वादिबहुविधविशेषविशिएत्वेन बहुविधमवगृह्णाति, अपरस्त्वबहुविधविशेषविशिष्ठत्वादबहुविधमवगृहाति । अत एतस्माद् बहु-बहुविधायनेकविकल्पनानात्वव शादवग्रहस्य कचित् सामान्यग्रहणम् , कचित् तु विशेषग्रहणम्, इत्युभयमप्यविरुद्धम् । अतो यत् मूत्रे "'तेणं सद्दे त्ति उम्गहिए" E0 इति वचनात् 'शब्दः' इति विशेषविज्ञानमुपदिष्टम् , तदप्यर्थावग्रहे युज्यत एव, इति केचित् ।। इति गाथार्थः ॥ २८॥ अत्रोत्तरमाह से किमोग्गहो ति भण्णइ गहणे-हा-वायलक्खणत्ते वि? । अह उवयारो कीरइ तो सुण जह जुज्जए सो वि ॥२८॥ Lo इह पूर्वमनेकधा प्रतिविहितमप्यर्थं पुनः पुनः प्रेरयन्त प्रेरकमवलोक्याऽन्तर्विस्फुरदम्यावशात् साक्षेपं काक्वा मूरिः पृच्छति-'किमो गहो त्ति भण्णइ त्ति' किंशब्दः क्षेपे, यो बहु-बहुविधादिविशेषणवशाद् विशेषावगमः स किमबुधचक्रवर्तिन् ! अवग्रहोऽर्थावग्रहो भण्यते । क सत्यपि ?, इत्याह-'गहणे-हित्यादि' ग्रहणं च सामान्यार्थस्य, ईहाऽवगृहीतस्य, अपायश्चेहितार्थस्य ग्रहणे-हा-पायास्तैलक्ष्यते प्रकटीक्रियते यः स तथा तद्भावस्तत्व तस्मिन् सत्यपि, बहु-बहुविधादिग्राहको हि विशेषावगमो निश्चयः, स च सामान्याऽर्थग्रहणं, ईहां च विना न भवति, यश्च तदविनाभाषी सोऽपाय एव, कथमर्थावग्रह इति भण्यते ? इति । एतत्पूर्वमसकृदेवोक्तमपि हन्त ! विस्मरणशीलतया, जडतया, बद्धाभिनिवेशतया षा पुनः पुनरस्मान् भाणयसीति किं कुर्मः १, पुनरुक्तमपि ब्रूमः, यद् यस्मादायासेनाऽपि कश्चिद् मार्गमासादयतीति । ननु ग्रहणम् , ईहा च विशेषावगमस्य लक्षणं भवतु, ताभ्यां विना तदभावात् । अपायस्तु कथं तल्लक्षणम् , तत्स्वरूपत्वादेवाऽस्य । सत्यम् , किन्तु स्वरूपमपि भेदविवक्षया लक्षणं भवत्येव, यदाह "विषा-अमृते स्वरूपेण लक्ष्येते कलशादिवत् । एवं च स्वस्वभावाभ्यां व्यज्येते खल-सज्जनौ " ॥१॥ आह- यदि बहु-बहुविधादिग्राहकोऽपाय एव भवति, तर्हि कथमन्यत्राऽवग्रहादीनामपि बहादिग्रहणमुक्तम् । सत्यम् , कि१ तेन शब्द इत्यवगृहीतः। २ स किमवमह इति भण्यते प्रहणे-हा-पायलक्षणत्वेऽपि ।। अथोपचारः क्रियते ततः कृणु यथा युज्यते सोऽपि ॥२८॥ काटकर ॥१६ । J antem For Personal and Private Use Only wMR.Janeitrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy