SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१९॥ तु सर्वमययत्वात् । सत्यमधिपरिज्ञानं तर्हि । तदपरिज्ञाने तयावृत्तत्वमेव बोद्धं शक्यत इति । नन्वेवंविधपरिज्ञानं तर्हि केवलिन एव भवति, नाऽन्यस्य, तस्य मूक्ष्माऽतीत-व्यवहिता-ऽमृर्तादिसमस्तवस्तुग्रहणासमर्थत्वात् । सत्यम् , साक्षादित्यं केवल्येव जानाति, तद्वचनश्रद्धानद्वारेण पुनर्भावतोऽन्योऽपि सम्यग्दृष्टिः सर्व एकैकं वस्तु सर्वमयं जानाति । आगमे हि केवलिनैतत् प्रणीतम् , तद्यथा- “जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ति"। सम्यग्दृष्टेंश्च सर्वस्याऽप्ययमागमः प्रमाणमेव, अन्यथा सम्यग्दृष्टित्वायोगात् । ततश्च यद्यपि सर्वः सम्यग्दृष्टिरित्यं सर्वं सर्वमयं वस्तु न जानाति, तथापि यथोक्तागमश्रद्धानद्वारेण भावतो जानात्येवेति । अतः सर्वदैवाऽयं ज्ञानी भण्यते, केवलिदृष्टयथावस्थितवस्तुस्वरूपस्य प्रमाणताभ्युपगमद्वारेण सर्वदैव तेन ज्ञायमानत्वात् ॥ इति गाथाभावार्थः ।। ___अक्षरार्थस्तूच्यते- एक वस्तु जानन् सर्व वस्तु जानाति, सर्वच वस्तु जानने जानातीति एवंभूतमागमं सम्यग्दृष्टिस्तावत् सर्वदैव प्रमाणतयाऽभ्युपगच्छति' इति शेषः । इत्यतः परमाण्वादिकं यत् किमपि वस्त्वस्ति, तत्सर्वमप्युक्तन्यायेन ख-परपर्यायैः सर्वमयं सम्यग्दृष्टिज्ञानगोचरः। अतः सर्वदेवाऽयं ज्ञानी भण्यते, जाग्रतः, स्वपतः, तिष्ठतः, चलतश्चाऽस्य परमगुरुप्रणीतयथोक्तवस्तुस्वरूपाभ्युपगमस्य चेतसि सर्वदैवाऽविचलनात् ।। इति गाथार्थः ॥ ३२० ॥ ननु यद्येवं, तर्हि निश्चयरूपं सम्यग्दृष्टानमस्तु, संशयांदयस्तु बालानामप्यज्ञानत्वेन लोके रूढाः, तस्याऽपि कथमिव ज्ञानं स्युः १, इत्याह जे संसयादिगम्मा धम्मा वत्थुस्स ते वि पज्जाया । तदहिगमत्तणओ ते नाणं चिय संसयाईया ॥ ३२१ ॥ इह ये संशयादिगम्या धर्मास्तेऽपि वस्तुनस्तावत् पर्याया एव । ततस्तदधिगमहेतुत्वात् ते सम्यग्दृष्टिसंबन्धिनः संशयादयो ज्ञानमेव । एतदुक्तं भवति- इह लोकव्यवहाररूढं संशयादित्वमज्ञानभावस्य निबन्धनत्वेन तावन्नाधिकृतमेव, किन्तु मिथ्यादृष्टिसंबन्धि त्वमित्युक्तमेव, तच्च सम्यग्दृष्टिसंबन्धिनां संशयादीनां नास्ति, तत्कथं न ते ज्ञानं भवेयुः । ज्ञायते येन किश्चित् तज्ज्ञानं भवति, न च संशयादिभिः किमपि ज्ञायते, इति चेत् । नैवम्, तेषामपि वस्तुपर्यायगमकत्वात् , तथाहि- पुरतः स्थाणी व्यवस्थिते योऽसौ 'किमयं स्थाणुः, पुरुषो वा ?' इति संशय उदेति, तत्र यत् स्थाणुत्वं, पुरुषत्वं च प्रतिभाति, तदुभयमपि स्थाणी पर्यायरूपतया । य एक जानाति स सर्व जानाति, यः सबै जानाति स एकं जानातीति । २ ये संशयादिगम्या धर्मा वस्तुनस्तेऽपि पर्यायाः । तदधिगमत्वतस्ते ज्ञानमेव संशपादयः ॥ ३२१ ॥ मावस्या ॥१९॥ Jan Education Internat For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy