SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१९१॥ प्राप्यते, स्थाणुत्वस्याऽनुगतत्वेन सत्वात् , पुरुषत्वस्य त्वभावरूपतयाऽसद्भावात् । अथवा, स्थाणुत्वं स्थाणोः पर्यायः, पुरुषत्वं तु पुरुषस्येति । यश्च स्थाणी 'पुरुष एवाऽयम्' इति विपर्यासः प्रादुरस्ति, तत्रापि पुरुषत्वं व्यावृत्तिरूपतया स्थाणोरपि पर्यायः, अनुगतत्वेन तु पुरुषस्येति; अनध्यवसायप्रतिभासि तु सामान्यमविवादेन स्थाण्वादिवस्तुपर्याय एव । तदेवं संशयादिभिर्वस्तुपर्यायाणां ज्ञायमानत्वात् , सम्यग्दृष्टिसंबन्धिनां च तेषामिहाऽधिकृतत्वेन मिथ्यादृष्टिसंबन्धित्वस्याऽभावात् , लोकरूढस्य च संशयादित्वस्याऽज्ञाननिवन्धनत्वेनेहाऽनधिकृतत्वाज्ज्ञानमेव ते सम्यग्दृष्टिसंबन्धिनः संशयादयः ॥ इति गाथार्थः ।। ३२१ ॥ नन्वनन्तपर्यायं सर्वमपि वस्तु, इति भवद्भिरुक्तम् । तस्य च घटादिवस्तुन एकस्मिन् काल एकमेव कश्चिद् घटत्वादिपर्यायं सम्यग्दृष्टिरपि गृह्णाति । अतोऽनन्तपर्यायमपि वस्त्वेकपर्यायतया गृह्णतस्तस्यापि कथं ज्ञानं स्यात्, अन्यथास्थितस्याऽन्यथा ग्रहणात् ?, इत्याशङ्कयाह पंजायमासयंतो एक पि तओ पओयणवसाओ । तत्तियपज्जायं चिय तं गिण्हइ भावओ वत्थु ॥३२२ ॥ 'तउत्ति तकोऽसौ सम्यग्दृष्टिरेकमपि घटादिवस्तुनो घटत्वादिपर्यायं प्रयोजनवशादाश्रयन् गृह्णस्तावन्तः प्रागुक्तप्रकारेणाऽनन्ताः पर्याया यस्य तत् तावत्पर्यायमेव भावतः परमार्थतो वस्तु घटादिकं गृह्णाति । एतदुक्तं भवति-भावत आगमप्रामाण्याभ्युपगमाभिप्रायतः सम्यग्दृष्टिना यथाऽवस्थितमनन्तपर्यायं वस्तु सदैव गृहीतमेवाऽऽस्ते, केवलं प्रयोजनवशादेकं पर्यायमाश्रयति, तथाहि-सौवर्णे घटे दृष्टे यस्य घटमात्रेण प्रयोजनं भवति स 'घटोऽयम्' इति घटत्वमध्यवस्यति । यस्य तु सुवर्णेन, स 'सुवर्णमिदम्' इति सुवर्णत्वं व्यवस्यति । यस्य तु जलक्षेपादिना, स 'जलादिभाजनमिदम्' इति जलादिभाजनत्वमध्यवस्यति । उपलक्षणं च प्रयोजनम् , अन्येऽप्यभ्यासपाटव-प्रत्यासत्त्यादयो गृह्यन्ते; तथाहि- ब्राह्मणे द्वारि दृष्टे कोऽप्यभ्यासवशाद् 'भिक्षुकोऽयम्' इत्याचष्टे, अन्यस्तु पाटववशाद् 'ब्राह्मणोऽयम्' इति, अपरस्तु यस्तत्समीपेऽधीते स प्रत्यासत्तिवशाद् 'मदीयोपाध्यायोऽसौ' इत्याद्यनया दिशा भावनीयम् । ततश्च प्रयोजनादिवशादेकपर्यायतया वस्तु गृह्णानोऽप्यसौ भावतः परिपूर्णाऽनन्तपर्यायमेव गृह्णाति । अतः सर्वदैव भावतः प्रतिपन्नयथावस्थितवस्तुखरूपस्य संशयादिकालेऽपि सम्यग्दृष्टानमेव ।। इति गाथार्थः ॥ ३२२ ॥ १ क-ग- 'घटादित्वप'। २ पर्यायमाश्रयन्नेकमपि सकः प्रयोजनवशात् । तावत्पर्यायमेव तद् गृहाति भावतो वस्तु ॥ ३२२ ।। Jan Education inte For Personal and Private Use Only www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy