SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१९२॥ मिथ्याप्टेरप्येवं भविष्यति, इति चेत् । न, इत्याह 'निण्णयकाले विजओ न तहारूवं विदंति ते वत्थु । मिच्छट्टिी, तम्हा सव्वं चिय तेसिमण्णाणं ॥ ३२३ ॥ बृहद्वत्तिः। ___ आस्तां संशयादिकाले, निर्णयो निश्चयस्तत्कालेऽपि यतस्ते मिथ्यादृष्टयो न यथा परमगुरुभिदृष्टं तथारूपमनन्तपर्याय वस्तु विदन्ति, केवलिदृष्टयथावस्थितवस्त्वभ्युपगमस्य तेषां कदाचिदप्यभावात् । अन्यथा मिथ्यादृष्टित्वायांगात् । अतस्तेषां निश्चयरूपं, संशयादिरूपं च सर्वमज्ञानमेव, ज्ञाननिवन्धनस्य भुवनगुरुनिर्णीतयथावस्थितवस्त्वभ्युपगमस्य कदाचिदप्यसत्त्वात् ।। इति गाथार्थः ॥३२३॥ अथवा नाज्ञानमात्रमेव तेषाम् , किन्त्वद्याप्याधिक्यं किश्चित् , इति दर्शयत्राहकेद्रयरं वन्नाणं विवज्जओ चेव मिच्छदिट्ठीणं । मिच्छाभिणिवेसाओ सव्वत्थ घडे व्व पडबुद्धी ॥ ३२४ ॥ संशया-ऽनध्यवसाय-विपर्ययान् किलाऽज्ञानत्वेन सामान्यतो वदति भवान् , मिथ्यादृष्टंस्त्वातदुःसहमहादुःखहेतुत्वात् कष्टतरं विशेषिततरमज्ञानम् । कुतः, इत्याह- यस्माद् विपर्ययो विपर्यास एव तस्य सर्वज्ञाक्ते यथावस्थिते वस्तुनि, न तु संशया-ऽनध्यवसायाविति भावः । अतः संशया-ऽनध्यवसायवद्भयो विशेषिततरमस्याऽज्ञानम् । कुतः पुनरस्य विपर्यय एव, इत्याह-मिथ्याभिनिवेशात् , सर्वत्रेति- सर्वत्र मोक्षे, तत्साधने संसार, तत्साधने च नारकादिवस्तुनि वा, तस्य मिथ्याभिनिवेशात् सर्वज्ञोक्तविपरीताध्यवसायात् , घटे पटबुद्धिवत् ।। इति गाथार्थः ॥ ३२४ ॥ ___ तदेवं सर्वज्ञोक्तयथावस्थितानन्तपर्यायवस्त्वभ्युपगमस्य सर्वदेव भावात् सम्यग्दृष्टानं समर्थितम् । अथ प्रकारान्तरेणापि तत् ।। तस्य समर्थयबाह अहवा जहिंदनाणोवओगओ तम्मयत्तणं होइ। तह संसयाइभावे नाणं नाणोवओगाओ ॥ ३२५ ॥ अथवा यथेन्द्रज्ञानोपयोगात् तदुपयोगवतो ज्ञातुर्देवदत्तादेः परमैश्वर्याद्यभावेऽपि तन्मयत्वमिन्द्रमयत्वं भवति, भावेन्द्र एवाऽयं व्यपदिश्यत इत्यर्थः तथा सम्यग्दृष्टेरपि सम्यग्दर्शनलाभकाल एव मत्यादिज्ञानलाभाज्ज्ञानपरिणामरूपस्य ज्ञानोपयोगमात्रस्य सर्वदैव भावात् , अन्यथा मिथ्यादृष्टित्वप्रसङ्गात् , सदैव ज्ञानमभ्युगन्तव्यम् , तदुपयुक्तस्य तन्मयत्वात् , इन्द्रोपयुक्तदेवदत्तेन्द्रवदिति । इदमुक्तं निर्णयकालेऽपि यतो न तथारूपं विदन्ति ते वस्तु । मिथ्यारष्टयः, तस्मात् सर्वमेव तेषामज्ञानम् ॥ ३२३ ॥ २ कष्टतरं वाऽज्ञानं विपर्यय एवं मिथ्यादृष्टीनाम् । मिथ्याभिनिवेशात् सर्वत्र घट इव पटवुद्धिः ॥ ३२४॥ ३ अथवा यथेन्द्रज्ञानोपयोगतस्तन्मयत्वं भवति । तथा संशयादिभावे ज्ञानं ज्ञानोपयोगात् ॥ ३२५ ॥ ४ ज. 'सर्वदै । PRADOORSHeidio VI|१९२॥ Jan Education Internat For Personal and Private Use Only www.janelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy