________________
मिशेल
बृहद्वतिः ।
आचार्यः माह
सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं कत्तो ? । सव्वं च निज्जरत्थं सत्थमओऽमंगलमजुत्तं ॥१९॥ ॥२०॥
बुद्ध्या शास्त्रे त्रिधा विभक्त तस्य शाखस्यान्तरालं तदन्तरालं तस्य परिकल्पनं कुतः संभवति-न कुतश्चिदित्यर्थः । यथा । हि संपूर्ण मोदकादिवस्तुनि त्रिखण्डे विकल्पितेऽन्तरालं न संभवति तथाऽत्रापि, इति कस्याऽमङ्गलता स्यात् । इति । यदि नाम
शास्त्रं त्रिधा विभक्तम् , तथापि कथं तस्य सर्वस्याऽपि मङ्गलता ? इत्याह- सर्व चावश्यकादि शास्त्रं निर्जरार्थ कर्मापगमरूपा निजेरा ROH अथेः प्रयोजनमस्येति निर्जरार्थम । तथा च सति तपोवत स्वयमेव मङ्गलमिदमिति सामा गम्यते । यदि नाम निजेरार्थत्वात् तपवित्
खयमेवाऽऽवश्यकादिशास्त्रं मङ्गलम् । ततः किम् , इत्याह-अतोऽमङ्गलमयुक्तम, यतः सर्वमेव शास्त्रं मङ्गलम् । अतो मालास्मान तस्मिंत्रिधा विभक्ते यदुच्यते 'अपान्तरालयममङ्गलम्' तदयुक्तमित्यर्थः । यदि हि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमालाडव्याप्तत्वात् कापि तदमङ्गलं भवेत् , यदा तु सर्वमपि स्वयमेव तद् मङ्गलम् , तदा कापि तस्याऽमङ्गलता न युक्तेति भावः॥ इति गाथार्थः ॥ १९॥
अथ प्रेरकः पाहजेइ मंगलं सयं चिय सत्थं तो किमिह मंगलग्गहणं ? । सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं ॥२०॥
यदि हि स्वयमेव शास्खं मङ्गलमिष्यते तदा त मंगलमाईए मज्ने' इत्यादिवचनात किमिह मङ्गलग्रहणं क्रियते', खत एव मङ्गल मालविधानस्याऽनर्थकत्वादिति भावः । इति परेण प्रेरिते गुरुराह- "सिस्सेत्यादि' शिष्यस्य मतिः शिष्यमतिस्तस्या मङ्गलपरिग्रहः सोऽथेः प्रयोजनमस्य तत् तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधानं मङ्गलाभिधानमित्यर्थः । इदमुक्तं भवतिशास्त्रादनथान्तरभूतमेव मङ्गलमुपादीयते, नार्थान्तरमिति मागेवोक्तम , नन्दिर्हि मङ्गलत्वेनाभिधास्यते, सा च पश्चज्ञानात्मिका, ततः शास्त्राण्यावश्यकादीनि सर्वाण्यपि श्रुतज्ञानरूपतया नन्द्यन्तर्गतान्येव. नन्दिरपि श्रतरूपत्वेनाऽऽवश्यकादिशास्त्रान्तर्गतैव । तस्माद् नन्देमङ्गलत्वनाऽभिधाने शास्त्रान्तर्गतमेव मङ्गलमभिहितं भवति । तत्रापि नाऽमङ्गलस्य सतः शास्त्रस्य मङ्गलताऽऽपादनाथ तदभिधानम् ,
१ शाने विधा विभक्त तदन्तरालपरिकल्पनं कुतः । सर्वं च निर्जरार्थ शास्त्रमतोऽमङ्गलमयुक्तम् ॥ १९॥ २.यदि महलं. स्वयमेव शास्त्रम्, तदा किमिह मङ्गलग्रहणम् ।। शिष्यमतिमङ्गलपरिप्रहार्धमानं तदभिधानम् ॥ २०॥ ३ गाथा १३ ।
S
For Personal and
Use Only