SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ बृहद्वचिः मालम् , तर्हि 'तं मंगलमाईए' इत्यादिवचनात मङ्गलं तत्र किमित्युपादीयते । सत्यम् , किन्तु 'सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं' इत्यादिना वक्ष्यते सर्वपत्रोत्तरम् , मा त्वरिष्ठाः ॥ इति गाथार्थः ॥१६॥ अथ समर्थवादितयार्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य समर्थयन्नाह अत्यंतरे वि सइ मंगलम्मि नामंगला-ऽणवत्थाओ । स-पराणुग्गहकारिं पईव इव मंगलं जम्हा ॥ १७॥ । शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाऽमङ्गलता शास्त्रस्य, नाऽप्यनवस्था । कुतः, इत्याह- यस्मात् ख-परानुग्रहकारि मङ्गलम् , प्रदीपवत्-यथा हि प्रदीप आत्मानं प्रकाशयमानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तु घटपटाद्यर्थानाविष्कुवाणः परेषामनुग्राहकः संपद्यते, न तु स्वप्रकाशे प्रदीपान्तरमपेक्षते; यथा च लवणं रसवत्यामात्मनि च सलवणतामुपदर्शयत् खपरानुग्राहकं भवति, न त्वात्मनः सलवणतायां लवणान्तरमपेक्षते । एवमर्थान्तरभूतं मङ्गलमपि निजसामाच्छास्त्रे खात्मनि च मङ्गलतां व्यवस्थापयत् स्व-परानुग्राहकं भवति । ततो मङ्गलाद् मङ्गलरूपताप्राप्तौ शास्त्रस्य तावद् नाऽमङ्गलता। यदा च मङ्गलमात्मनो मङ्गलरूपतायां मङ्गलान्तरं नापेक्षते, तदाऽनवस्थाऽपि दूरोत्सारितैव ॥ इति गाथार्थः ॥१७॥ पुनरन्यथा परः प्रेरयति मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते । जइ वा सव्वं सत्थं मंगलमिह किं तियग्गहणं ॥१८॥ इह मालविचारप्रक्रमे, अर्थतोऽर्थापत्त्या एतत् ते तव आचार्य ! प्रसक्तं प्राप्तम् । किं तत् ?, इत्याह- मङ्गलानामादि-मध्याघसानलक्षणं त्रिकं मङ्गलत्रिकं तस्याऽन्तरालद्वयलक्षणमन्तरालं न मङ्गलमिति । यदा हि "तं मंगलमाईए मज्झे पज्जतए य सत्थस्स' A इत्यादिवचनादादिमध्यावसानलक्षणेषु त्रिष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा तदव्याप्तमन्तरालयमर्थापत्त्यैवाऽमङ्गलं प्रामोतीति भावः । पर एवाह- यदि वा सिद्धान्तवादिन् ! एवं ब्रूयास्त्वं यदुत-सर्वमेव शास्त्रं मङ्गलमिति प्रागेवोक्तम् , अतः किमेवं प्रेर्यते । हन्त ! तर्हि 'तं मंगलमाईए' इत्यादिना किमिह मङ्गलत्रिकग्रहणं कृतम् । न हि सर्वस्मिन्नपि शास्त्रे मङ्गले 'आदौ मध्येऽवसाने च मङ्गलम्' इत्युच्यमानं युक्तियुक्तत्वमनुभवति । तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपद्यस्य, मङ्गलत्रयग्रहणं वा मा कृथा इति भावः॥ इति गाथार्थः ॥ १८॥ १ गाथा २०। २ अर्धान्तरेऽपि सति मङ्गले नामङ्गलाऽनवस्थे । स्व-परानुग्रहकारि प्रदीप इव मङ्गलं यस्मात् ॥ १७॥ ३ मङ्गलत्रिकान्तरालं न मङ्गलमिहाऽर्थतः प्रसक्तं ते । यदि वा सर्व शास्त्रं मालमिह किं त्रिकमहणम् ॥१८॥४ गाथा १३ Jan Education Internat For Personal and Private Use Only www.jaineltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy