SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रसास्वाlicks विशे० बृहद्वत्तिः । SERIESCAPERSTARDAR अत्राह मंगलकरणा सत्थं न मंगलं, अह च मंगलस्सावि । मंगलमओऽणवत्था न मंगलममंगलत्ता वा ॥१५॥ प्रेरकः पाह- भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति । कुतः ?, इत्याह- मङ्गलकरणात् अमङ्गले हि मङ्गलमुपादीयते, यत्तु स्वयमेव मङ्गलं तत्र कि मङ्गलविधानेन ?, न हि शुक्लं शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते; तस्माद् तन्मङ्गलोपादानान्यथानुपपत्तेः शास्त्रं न मङ्गलम् । अथ मङ्गलं शास्त्रम् , मङ्गलस्याऽपि सतस्तस्याऽन्यद् मङ्गलं क्रियत इत्यभ्युपगम्यते; अंत एवं सति तर्खनवस्था-मङ्गलानामवस्थानं न क्वचित् प्राप्नोति, तथाहि- यथा मङ्गलस्याऽपि सतः शास्त्रस्याऽन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्रूपस्य सतोऽन्यद् मङ्गलमुपादेयम् , तस्याऽप्यन्यत् , अपरस्याऽप्यन्यत् , इत्येवमनवस्था आपतन्ती केन वार्यते ? । अथ शास्त्रे यदुपात्तं मङ्गलं तस्यान्यमङ्गलकरणाभावत इयं नेष्यते । तत्र दृषणमाह-'न मङ्गलमिति' शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्याऽनवस्थाभयेनाऽज्यमगलाकरणेन तद् मङ्गलं न स्यात् , अन्यमङ्गलाभावात् , शास्त्रवत् , इत्यर्थः; इदमुक्तं भवति- यदि मङ्गलस्याऽपरमङ्गलविधानाभावेनाऽनवस्था नेष्यते, तर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत, न्यायस्य समानत्वात् । तथा च किमनिष्टं स्यात् ?, इत्याह- अमगलता मङ्गलाभावः- शास्त्रे यद् मङ्गलमुपात्तं तदन्यमङ्गलशून्यत्वाद् न मङ्गलम् , तस्य च मङ्गलत्वाभावे शास्त्रमपि न मङ्गलम् , इति व्यक्त एव मङ्गलाभाव इति भावः । वाशब्दः पक्षान्तरसूचक:- अनवस्था, मङ्गलाभावो वेत्यर्थः ॥ इति गाथार्थः ॥ १५ ॥ अत्रोत्तरमाह सत्थत्थन्तरभूयम्मि मंगले होज कप्पणा एसा । सत्थम्मि मंगले किं अमंगलं काऽणवत्था वा ॥१६॥ शास्त्रादावश्यकादेरर्थान्तरभूते भेदवति मङ्गले उपादीयमाने भवेद् घटेत परेण विधीयमाना • मंगलकरणा सत्यं न मंगलं' इत्यादिका कल्पना दोषोत्प्रेक्षालक्षणा; शास्त्रे त्वावश्यकादिके परममङ्गलस्वरूपेऽभ्युपगम्यमाने, तद्भिन्ने मङ्गले चाऽनुपादीयमाने हन्त ! किममङ्गलम् , का वाऽनवस्था त्वया प्रेयते । तस्मादाकाशरोमन्थनमेव परस्य दोषोद्भावनमिति भावः । आह- यदि शास्त्रं स्वयमेव , मङ्गलकरणाच्छास्त्रं न मङ्गलम् , अथ च मङ्गलस्याऽपि । मङ्गलमतोऽनवस्था न मङ्गलममङ्गलस्वाद वा ॥ १५॥ २ शास्त्रार्थान्तरभूते मङ्गले भवेत् कल्पनैषा । शास्ने मङ्गले (मङ्गलरूपे) किममङ्गलं काऽनवस्था वा ? ॥५॥३ गाथा १५। ॥१८॥ FROOOPRESisir जानवरसम्राका Jan Education intem For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy