SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Indian स विशे० ॥१७॥ दसकालिअस्स तह उत्तरज्झमा-ऽऽयारे, सूयगडे निज्जुत्ति" इत्यादिग्रन्थे आवश्यकस्य नियुक्तिं प्रतिज्ञाय नमस्कारस्य नियुक्तिकरणमसंगतमेव स्यात् । तस्मात् तत्करणादेव सर्वश्रुताभ्यन्तरताऽस्य प्रतीयते। अतो व्यवस्थितमिदम्- आवश्यकानुयोगप्रतिज्ञाविधानेनैव नम बृहद्वतिः । स्कारानुयोगः संगृहीत एव, करिष्यते च नमस्कारनियुक्तिव्याख्यानावसरे भाष्यकारोऽपि तदनुयोगम् ; इत्यलं विस्तरेण ।। इति । गाथार्थः ॥ तदेवं सप्रसङ्गमभिहितं योगद्वारम् ॥ ११ ॥ अथ तृतीयं मङ्गलद्वारमधिकृत्याऽऽह बहुविग्घाई सेयाई तेण कयमंगलोवयारेहिं । घेत्तव्यो सो सुमहानिहित्व जह वा महाविज्जा ॥ १२ ॥ “श्रेयांसि बहुविघ्नानि भवन्ति महतामपि" इति वचनाद् येन बहुविघ्नानि श्रेयांसि भवन्ति तेन कारणेन परमश्रेयोरूपत्वात् कृतमलोपचारैरेव स आवश्यकानुयोगो ग्रहीतव्यः । किंवत् ?, इत्याह- शोभनमहारत्नादिनिधिवद्, महाविद्यावद् वा ॥ इति गाथार्थः॥१२॥ क्व पुनस्तन्मङ्गलं शास्त्रस्येष्यते ?, इत्याह- . ते मंगलमाईए मज्झे पज्जन्तए य सत्थस्स । पढम सत्थत्थाऽविग्धपारगमणाय निद्दिढें ॥ १३ ॥ तद् मङ्गलं शास्त्रस्यादौ क्रियते, तथा मध्ये, पर्यन्ते चेति । अथैकैकस्य करणफलमाह- प्रथममङ्गलं तावच्छास्त्रार्थस्याऽविघ्नेन पारगमनाय निर्दिष्टम् ।। इति गाथार्थः ॥ १३॥ तेरसेव य थेजत्थं मज्झिमयं, अंतिम पि तस्सेव । अव्वोच्छित्तिनिमित्तं सिरसपसिस्साइवंसस्स ॥१४॥ तस्यैव शास्त्रस्य प्रथममङ्गलकरणाऽनुभावादविघ्नेन परम्परामुपागतस्य स्थैर्यार्थ स्थिरताऽऽपादनार्थ मध्यमं मङ्गलम् , निर्दिष्टमिति वर्तते, 'अन्तिमं पीति' अन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य मध्यममङ्गलसामर्थ्यन स्थिरीभूतस्याऽव्यवच्छित्तिनिमित्तम्, कस्य, योऽसौ शास्त्रार्थः ?, इत्याह- शिष्यपशिष्यादिवंशगतस्येत्यर्थः । शिष्यपशिष्यादिवंशे शास्त्रार्थस्याऽव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः॥ इति गाथार्थः ।। १४॥ १ बहुविघ्नानि श्रेयांसि तेन कृतमझालोपचारैः । ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या ॥ १२॥ २ तद् मङ्गलमादी मध्ये पर्यन्तके च शाखस्य । प्रथमं शास्त्रार्थाऽविघ्नपारगमनाय निर्दिष्टम् ॥ ५॥ ३ तस्यैव च स्थयाँथ मध्यमकम् , अन्तिममपि तस्यैव । अव्यवच्छित्तिनिमित्तं शिष्यपशिष्यादिवंशस्य ॥१४॥ Form y
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy