________________
Aav
विशे० ॥१६॥
PRES
स्य, आदिशब्दो भिन्नक्रमे, आवश्यकादिश्रुतस्कन्धानुयोगग्रहणगृहीतोऽनुयोगोऽपि, न केवलमावश्यकादिश्रुतस्कन्धग्रहणेन तदन्तर्गतत्वाद् नमस्कारः स्वरूपेण गृह्यते, किन्त्वावश्यकादिश्रुतस्कन्धानुयोगग्रहणेन नमस्कारानुयोगोऽपि गृह्यत इत्यपिशब्दार्थः, ततश्चावश्यकानुयोगं वक्ष्य इत्युक्तेन नमस्कारानुयोगोऽपि भणनीयत्वेन प्रतिज्ञातो द्रष्टव्य इति भावः ॥ इति गाथार्थः ॥९॥
कथं पुनर्नमस्कारस्य सर्वश्रुतस्कन्धाभ्यन्तरता विज्ञायते ?, इत्याहतैस्स पुणो सव्वसुयभंतरया पढममंगलग्गहणा । जं च पिहो न पढिजइ नंदीए सो सुयक्खंधो ॥१०॥
तस्य च नमस्कारस्य, सर्वाणि च तानि श्रुतानि चाऽऽवश्यकश्रुतस्कन्धादीनि तदभ्यन्तरता प्रतीयते । कुतः ?, इत्याह-सकलमाङ्गलिकवस्तुनः प्रथमं च तन्मङ्गलं च प्रथममङ्गलं तदध्यवसायेन सर्वश्रुतस्यादौ ग्रहणं प्रथममङ्गलग्रहणं तस्मात् । इदमुक्तं भवति"मङ्गलाणं च सम्वेसिं पढमं हवैइ मङ्गलं" इति वचनात् प्रथममङ्गलत्वाभिप्रायेण सर्वश्रुतानामादौ नमस्कारस्य ग्रहणात् तदभ्यन्तरता प्रतीयत एव । कारणान्तरमप्याह- 'जं चेत्यादि' यद् यस्माच्चाऽसौ नमस्कारो नन्द्यध्ययने आवश्यक-दशवैकालिकादिश्रुतस्कन्धवत् तेभ्यः पृथक् 'सुअक्खंधो त्ति' श्रुतस्कन्धत्वेन न पठ्यते, येनाऽस्य पृथक् तेभ्यः श्रुतस्कन्धरूपता स्यात् , श्रुतरूपश्चाऽसौ, ततः पृथक् श्रुतस्कन्धत्वाभावे सामर्थ्यात् सर्वश्रुताभ्यन्तरतैवाऽस्य न्याय्या । तस्माद् नन्द्यध्ययनेऽप्यस्य श्रुतस्कन्धत्वेन पृथगनुपादानं सर्वश्रुताभ्यन्तरताज्ञापनार्थमेव ॥ इति गाथार्थः ॥१०॥
यतश्चैवं नन्द्यां श्रुतस्कन्धत्वेन पृथगनुपादानात् सर्वश्रुताभ्यन्तरत्वेन ज्ञापितोऽसौ नमस्कारः, तत एवैतत् कृतं भद्रबाहुस्खामिना । किम् ?, इत्याह
तेणे चिय सामाइयसुत्ताणुगमाइओ नमोक्कारं । वक्खाणेउं गुरवो वयंति सामाइयसुयत्थं ॥११॥
येनैवोक्तन्यायेन नन्यामसौ सर्वश्रुताभ्यन्तरतया ज्ञापितः, तेनैव कारणेन सामायिकसूत्रानुगमस्यादौ नमस्कारं व्याख्याय गुरवो भद्रबाहुस्वामिनो वदन्ति-अर्थव्याख्यानद्वारेण प्रकटन्ति सामायिकश्रुतार्थम् । यदि हि पृथगसौ श्रुतस्कन्धः स्यात् तदा"ऑवस्सयस्स
1 तस्य पुनः सर्वधुताभ्यन्तरता प्रथममगलग्रहणात् । यच्च पृथग् न पठ्यते नन्यां स श्रुतस्कन्धः ॥ १० ॥ २ ममालानां च सर्वेषां प्रथमं भवति मगलम् । ३ क. घ. छ. 'होइ'। • तेनैव सामायिकसूत्रानुगमादितो नमस्कारम् । व्याख्यानय्य (व्याख्याय) गुरवो वदन्ति सामायिकस्वार्थम् ॥११॥ ५ मावश्यकस दशवकालिकख तथोत्तराध्ययाना-उचारागयोः, सूत्रकृताङ्गे नियुक्तिम् ॥
For Personal and
Use Oy