________________
विशे०
बृहद्वृत्तिः ।
॥१५॥
"थेराणं नाणत्तं अतरंतं अप्पिणन्ति गच्छस्स । गच्छे निरवजेणं करेन्ति सव्वं पि परिकम ।। १ ।। एकेकपडिग्गहगा सप्पाउरणा हवंति थेराउ | जेसिं उण जिणकप्पे न य तेसिं बत्थपायाणि ॥२॥
निप्पडिकम्मसरीरा अवि अच्छिमलं पि नेअ अवणिति । विसहंति जिणा रोगं कारिंति कयाइ न तिगिच्छं ॥३॥ इत्यलं विस्तरेण, तदर्थिना तु कल्पग्रन्थोऽन्वेषणीय इति । तस्माद् यतः प्रव्रज्या-शिक्षापदानन्तरमर्थग्रहणं विधेयम् , ततोऽर्थव्याख्यारूपेणाऽनुयोगेनाऽयमधिकारः मूत्राध्ययनकालस्यातिक्रान्तत्वेन तस्यैवेह प्रस्तुतत्वादिति स्थितम् ॥ इति गाथार्थः॥७॥
आह-कृतपश्चनमस्काराय शिष्याय सामायिकादिश्रुतं ददत्याचार्याः, तेनैव च क्रमेणाऽनुयोगमित्युक्तम् , यदि नामैवमुक्तं ततः किम् ?, इत्याह
ओईए नमोकारो जइ पच्छाऽऽवासयं तओ पुव्वं । तस्स भाणएऽणुओगे जुत्तो आवसयस्स तओ ॥ ८॥ यदीत्यभ्युपगमे, यद्यादौ नमस्कारो दीयते ततः पश्चात् सामायिकाद्यावश्यकम् , ततस्तर्खेतदनेन न्यायेनाऽऽपतितं यदुत- पूर्व प्रथमं तस्य नमस्कारस्य भणिते कृतेऽनुयोगे व्याख्याने ततो युक्तः कर्तुमावश्यकस्याऽनुयोगः; व्याख्येयाऽनुरोधेनैव हि व्याख्यानं प्रवर्तते, व्याख्येयस्य चावश्यकस्यादौ नमस्कारो देयत्वेन भवद्भिरभ्युपगम्यते, अतस्तस्यानुयोगे कृते आवश्यकस्याऽसौ कर्तुमुचितः, तत आद्यगाथायां 'नमोकाराणुओगपुच्चयं आवस्सयाणुओगं वोच्छं' इति वक्तुं युक्तमिति भावः ॥ इति गाथार्थः ॥८॥
अत्रोत्तरमाहसो सव्वसुअक्खन्धब्भन्तरभूओ जओ तओ तस्स । आवासयाणुओगादिगहणगहिओऽणुओगो वि ॥९॥ स नमस्कारः सर्वेपामप्यावश्यक-दशबैकालिको-त्तराध्ययनादिश्रुतस्कन्धानामभ्यन्तर्भूतोऽन्तर्गतो यतः, ततस्तस्य नमस्कार
१ स्थविराणां नानात्वमशक्नुवन्तमर्पयन्ति गच्छस्य । गच्छे निरवयेन कुर्वन्ति सर्वमपि परिकर्म ॥१॥
एकैकप्रतिग्रहका सप्रावरणा भवन्ति स्थबिरास्तु । येषां पुनर्जिनकल्पो न च तेषां वखपात्राणि ॥२॥ निष्पतिकर्मशरीरा अप्यक्षिमलमपि नैवाऽपनवन्ति । विषहन्ते जिनाः (जिनकल्पिकाः) रोगं कारयन्ति न कदापि चिकित्साम् ॥३॥ २ आदौ नमस्कारो यदि पश्चादावश्यकं ततः पूर्वम् । तस्य भाणितेऽनुयोगे युक्त आवश्यकस्य ततः ॥८॥ ३ नमस्कारानुयोगपूर्वकमावश्यकानुयोगं वक्ष्ये।। ४ स सर्वश्रुतस्कन्धाभ्यन्तरभूतो यतस्ततस्तस्य । आवश्यकानुयोगादिग्रहणगृहीतोऽनुयोगोऽपि ॥९॥
Jan Education inten
For Dev
enty
www.jaineitrary.org