SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । इति वचनात् परिकर्मरहितायां वसतौ तिष्ठति, यापविशति तदा नियमावुत्कुदुक एव, न तु निषद्यायाम् , औपग्रहिकोपकविशे०रणस्यैवाऽभावादिति । मत्तकरि-व्याघ्र-सिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमिति न भिनत्ति, इत्याद्यन्याऽपि जिनकल्पिकानां सामाचारी समयसमुद्रादवगन्तव्या । 'ठिई चेव त्ति तथा पूर्वोक्ते द्विविधेऽपि विहारे स्थितिः श्रुतसंहननादिका ज्ञात१४॥ व्या, तथाहि-जिनकल्पिकस्य तावज्जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कर्षतस्त्वसंपूर्णानि दश पूर्वाणि श्रुतं भवति । प्रथमसंहननो बज्रकुड्यसमानाऽवष्टम्भश्चायं भवति । स्वरूपेण पञ्चदशस्वपि कर्मभूमिषु, संहृतस्त्वकर्मभूमिष्वपि भवति । उत्सर्पिण्यां व्रतस्थस्तृतीयचतुर्थारकयोरेवः जन्ममात्रेण तु द्वितीयारकेऽपि, अवसर्पिण्यां तु जन्मना तृतीयचतुर्थारकयोरेव, व्रतस्थस्तु पश्चमारकेऽपिः संहरणेन तु सर्वस्मिन्नपि काले प्राप्यते । प्रतिपद्यमानक: सामायिक-च्छेदोपस्थापनीयचारित्रयोः, पूर्वप्रतिपन्नस्तु मूक्ष्मसंपराय- यथाख्यातचारित्रयोरप्युपशमश्रेण्यामवाप्यते । प्रतिपद्यमानानामुत्कृष्टतः शतपृथक्त्वम् , पूर्वप्रतिपन्नानां तु सहस्रपृथक्त्वं जिनकल्पिकानां लभ्यते । | जिनकल्पिकः प्रायोऽपवादं नाऽऽसेवते, जडावलपरिक्षीणस्त्वविहरमाणोऽप्याराधकः । आवश्यिकी-नषेधिकी-मिथ्यादुष्कृत-गृहिविषयपृच्छो-पसंपल्लक्षणाः पञ्च सामाचार्योऽस्य भवन्ति, न विच्छादयः। अन्ये त्वाहुः अवश्यिकी-नैपेधिकी-गृहस्थोपसंपल्लक्षणास्तिस्रएव भवन्ति, आरामादिनिवासिन ओघतः पृच्छादीनामप्यसंभवादिति । लोचं चाऽसौ नित्यमेव करोति, इत्येवमाद्यपराऽपि स्थितिजिनकल्पिकानामागमादवसेया । परिहारविशुद्धिककल्प-सामाचार्यादिवक्तव्यताऽत्रैव ग्रन्थे पुरस्ताद् वक्ष्यते । यथालन्दिकानां तु "तवेण सत्तेण सुत्तेण" इत्यादिका भावनादिवक्तव्यता यथा जिनकल्पिकानाम् । यस्तु विशेषः स लेशतः प्रोच्यते-तत्रोदकाः करो यावता शुष्यति, तत आरभ्योत्कृष्टतः पञ्च रात्रिन्दिवानि यावत्कालोन समयपरिभाषया लन्दमित्युच्यते । ततश्च पञ्चरात्रिन्दिवलक्षणस्योस्कृष्टस्य लन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः। पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते, ग्रामं च गृहपतिरूपाभिः षभिर्वीथीभिजिनकल्पिकवत् परिकल्पयन्ति, किन्त्वेकैकस्यां वीथ्यां पञ्च पश्च दिनानि पर्यटन्तीत्युत्कृष्टलन्दिचारिणो यथालन्दिका उच्यन्ते । एते |च प्रतिपद्यमानका जघन्यतः पञ्चदश भवन्ति; उत्कृष्टतस्तु सहस्रपृथक्त्वम् । पूर्वप्रतिपन्नास्तु जघन्यतः कोटिपृथक्त्वम् , उत्कृष्टतोऽपि BI कोटिपृथक्त्वं भवन्ति । एते च यथालन्दिका द्विविधा भवन्ति-गच्छे प्रतिबद्धाः, अप्रतिबद्धाश्च; गच्छे च प्रतिबन्धोऽमीषां कारणतः, कि श्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यमिति । पुनरेकैकशो द्विविधाः- जिनकल्पिकाः, स्थविरंकल्पिकाश्च । ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु पुनरपि स्थविरकल्पं समाश्रयिष्यन्ते ते स्थविरकल्पिकाः। एतेषां च स्थविरकल्पिक-जिनकल्पिकभेदभिन्नानां यथालन्दिकानां परस्परमयं विशेषः, यदाह १ ख. ग. 'दुत्कुडक'। www.jainelibrary.org in Educa For Personal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy