________________
विशेषा० ॥१४॥
प्राप्तमर्थं गृह्णाति चक्षुः, तर्हि अतिसंप्राप्तानप्यञ्जन-रजो-मल-शलाकादीन् कस्माद् न गृह्णाति ? । मनोऽपि प्राप्तान् सर्वानपि किमिति न गृह्णाति ? । गृह्णात्येवेति चेत् । न, ग्रहणाऽनवस्थानप्रसङ्गात्- यावद्धि घटं गृह्णाति, तावत् पटं, शङ्ख, शुक्तिकादीन वा किमिति न बृहदा गृह्णातीति । घटमाप्तिकाले पटादयो न प्राप्ता एवेति चेत् । न, तदप्राप्ती हेत्वभावात् , तथाहि-न तावत् कट-कुट्यादयस्तेषामावारकाः, तैरन्तरितानामपि मेर्वादीनां मनसा परिच्छेदानुभवात् । कर्मोदयात , स्वभावाद् वा प्रतिनियतमेव मनः प्राप्नोतीति चेत् । नन्वेतदपाप्यकारिणो नयनस्यापि समानम् ॥ इति गाथार्थः ।। २४८ ॥
तस्मात् किमिह स्थितम् ?, इत्याह
सामत्थाभावाओ मणो व्व विसयपरओ न गिण्हेइ । कम्मक्खओवसमओ साणुग्गहओ य सामत्थं ॥२४९॥
चक्षुः सिद्धान्तनिर्दिष्टनियतविषयपरिमाणात् परतो न गृह्णातीति प्रतिज्ञा, चक्षुषश्चेह कर्तृवं प्रक्रमाद् गम्यते, सामर्थ्याभावादिति हेतुः, मनोवदिति दृष्टान्तः । सामर्थ्याभावोऽपि नयनस्य कुतः?, इत्याह- 'कम्मक्खओ इत्यादि' तदावरणकर्मक्षयोपशमात्, वानुग्रहतश्चाआप्तेष्वपि केषुचिद् योग्यदेशावस्थितेष्वर्थेषु परिच्छेदे कर्तव्ये लोचनस्य सामर्थ्य भवति । इदमुक्तं भवति- अप्राप्तत्वे समानेऽपि येष्वर्थेषु ग्रहणविषये कर्मक्षयोपशमो भवति, तथा, स्वस्याऽऽत्मनो रूपा-ऽऽलोक-मनस्कारादिसामग्याः सकाशादनुग्रहो भवति, तेष्वथेषु कर्मक्षयोपशमसद्भावात् , शेषसामग्यनुग्रहाच्च चक्षुषो ग्रहणसामर्थ्य भवति । येषु त्वर्थेषु ग्रहणविषये कर्मक्षयोपशमः, शेषसामग्यनुग्रहश्च नास्ति, तेषु तस्य सामर्थ्याभाव इत्यर्थापत्तित एव गम्यते । तस्माद् व्यवस्थितमप्राप्यकारित्वं नयन-मनसोः । ततश्च स्पर्शनरसन-प्राण-श्रोत्रभेदाचतुर्विध एव व्यजनावग्रह इति स्थितम् ॥ इति गाथार्थः ॥ २४९ ॥ तदेवं 'नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा' इत्येतत् समर्थितम् । अथ प्रकृतमुच्यते
तत्थोग्गहो (रूवो गहणं जं होई वंजण-त्थाणं । वंजणओ य जमत्थो तेणाईए तयं बोच्छं ' ॥ १ ॥ इत्यादिना ग्रन्थेन प्रतिज्ञातव्यञ्जनावग्रहस्वरूपप्रतिपादनं चेह प्रकृतम् । तस्य च व्यञ्जनावग्रहस्य स्वरूपं नन्यध्ययनागमसूत्रे प्रतिबोधक-मल्लकोदाहरणाभ्यां प्रतिपादितम् , तद्यथा१ क. ग. 'हणेऽन' । २ घ. छ. ज. 'घट' । ३ सामर्थ्याभावाद् मन इव विषयपरतो न गृह्णाति । कर्मक्षयोपशमतः सानुमहतच सामर्थ्यम् ॥ २४९ ॥
10-1॥१४७॥ ४ गाथा २०४ । ५ गाथा १९३.६ क, ग. प. छ. ज. 'दुभेओ ग' ७ क. ग. घ. छ. ज. 'होज ।
Jan Education interna
For Personal and ve
r y