SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ DISEASE विशेषा० बृहद्वत्तिः । ॥१८२॥ PALIमानामा PHOTOS खिप्पमचिरेण तं चिय सरूवओ जं अणिस्सियमलिङ्गं । निच्छियमसंसयं जं धुवमच्चतं न उ कयाई ॥३०९॥ इह श्रवणयोग्यदेशस्थे तूर्यसमुदाये युगपद् वाद्यमाने कोऽपि श्रोता तस्य तूर्यसंघातस्य संबन्धिनं पटह-ढक्का-शङ्ख-भेरि-भाणकादिनानाशब्दसमूहमाकर्णितं सन्तं क्षयोपशमविशेषाद् बहुमवग्रहादिना 'मुणति' जानाति । कोऽर्थः ?, इत्याह- पृथग भिन्नजातीयम् , एतावन्तोत्र भेरिशब्दाः, एतावन्तो भाणकशब्दाः, एतावन्तस्तु शङ्ख-पटहादिशब्दाः, इत्येवं पृथगेकैकशो भिन्नजातीयत्वेन तं नानाशब्दसमूहं बुध्यत इत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यपहुं 'मुणति'- सामान्येन 'नानातूर्यशब्दोऽयम्' इत्यादिमात्रकमेव जानातीति प्रतिपक्षः । एवमुत्तरगाथायामतिदक्ष्यमाणा प्रतिपक्षभावना सर्वत्रावबोद्धव्या । अन्यस्तु क्षयोपशमवैचित्र्याद् बहुविधं 'मुणति' । कोऽर्थः ?, इत्याह- अनेकभेदम् , इदमपि व्याचष्टे- एकैकं शङ्ख-भेर्यादिशब्दं स्निग्धत्व-मधुरत्व-तरुण-मध्यम-वृद्धपुरुषवाद्यत्वादिबहुविधधर्मोपेतं जानातीत्यर्थः । अन्यस्त्ववहुविधं स्निग्ध-मधुरत्वादिस्वल्पधान्वितमेव पृथग भिन्नजातीयं नानाशब्दसमूहं जानाति । अन्यस्तु क्षिप्रम् । कोऽथेः, इत्याह- अचिरेण शीघ्रमेव परिच्छिनत्ति, नतु चिरेण विमृश्येत्यर्थः । अन्यस्त्वक्षिप्रं चिरविमार्शतं जानाति । तथा 'तं चिय सरूवओ जं अणिस्सियमिति' तमेव नानाशब्दसमूह कोऽप्यनिश्रितं 'मुणति' इति संबन्धः । यं किम् ?, इत्याह- यं खरूपतो जानाति । कोऽर्थः, इत्याह- अलिङ्गं पताकादिलिङ्गा निश्रितमित्यर्थः । इदमुक्तं भवति- तमेव शब्दसमूह 'देवकुलमत्र, तथाविधपताकादर्शनात्' इत्येवं लिङ्गनिश्रामकृत्वा स्वरूपन एव यमवगच्छति, तमनिश्रितं 'मुणति' इत्युच्यत इति । तमेव लिङ्गनिश्रया जानानो निश्रितं 'मुणति' इच्युच्यते । तथा 'निच्छियमसंसयं जं ति यमसंशयमवच्छिनत्ति तं निश्चितं 'मुणति' । निश्चितं तावदित्यमेतद् मया, परं न जाने, तथा वा स्यात्, अन्यथा वा, इत्येवं संदेहानुविद्धं तु जानननिश्चितं 'मुणति' । 'धुवमित्यादि ध्रुवम् , कोऽर्थःअत्यन्तं, न तु कदाचिदिति । इदमुक्तं भवति- यथैकदा बहादिरूपेणाऽवगतं सर्वदैव तथाऽवबुध्यमानो ध्रुवं 'मुणति' इत्युच्यते । यस्तु कदाचिद् बहादिरूपेण, कदाचित् त्वबहादिरूपेण, सोऽध्रुवं 'मुणति' ।। इति गाथाद्वयार्थः ॥ ३०८ ॥३०९ ॥ इतरशब्दं व्याचिख्यासुराहऍत्तो चिय पडिवक्खं साहिजा, निस्सिए विसेसो वा । परधम्महि विमिस्सं निस्सियमावणिस्सियं इयरं॥३१॥ ॥१८२॥ १ क्षिप्रमचिरेण तमेव स्वरूपतो यमनिश्रितमलिङ्गम् । निश्चितमसंशयं यं ध्रुवमत्यन्तं न नु कदाचित् ॥ ३०९ ॥ २ क. घ. 'मुदये। ३ क. ग. 'देश्यमाना प्र' । ४ एतस्मादेव प्रतिपक्षं कथयेद् निश्रिते विशेषो वा । परधर्मविमिनं निश्रितमविनिश्रितमितरत् ॥ ३१०॥ Jan Education inten For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy