________________
बृहद्वत्तिः।
विशेषा० ॥१८॥
निश्रितमतिज्ञानसंबन्धिष्ववग्रहादिगताऽष्टाविंशतिभेदेष्ववग्रहादिसाम्येन बुद्धिचतुष्टयस्याऽन्तर्भावो भावनीयः । ततो न युक्तं व्यञ्जनावग्रहचतुष्टयाऽपगमेन पुनर्बुद्धिचतुष्टयप्रक्षेपणम्, इति स्थितम् ॥ इति गाथार्थः ॥ ३०४ ॥
आह-ननु यद्यवग्रहादिसाम्येनाऽश्रुतनिश्रितं श्रुतनिश्रिताऽवग्रहादिष्वन्तर्भवति, तर्हि "आभिणिबोहियनाणं दुविहं पन्नतं, तं जहा- सुयनिस्सियं, अस्सुयनिस्सियं च" इत्येवमागमे यः श्रुतनिश्रितादश्रुतनिश्रितस्य भेद उक्तः, स विशीर्यत एव, इत्याशक्याह
जह उग्गहाइसामण्णउ वि सोइंदियाइणा भेओ । तह उग्गहाइसामण्णओ वि तमणिस्सिया भिन्नं ॥३०५॥
यथेहाऽवग्रहादीनामवग्रहादिसामान्ये सत्यपि, अवग्रहादित्वे तुल्येऽपि सतीत्यर्थः । किम् ?, इत्याह- श्रोत्रेन्द्रियादिना भेदः, तथाहिएके श्रोत्रेन्द्रियसंवन्धिनोऽवग्रहादयः, यावदन्ये स्पर्शनेन्द्रियसंबन्धिनः, अपरे तु मनःसंवन्धिनः; तथा तेनैव प्रकारेणावग्रहादिसामान्ये सत्यपि तदश्रुतनिश्रितं भिन्न, 'श्रुतनिश्रितात्' इति शेषः । कस्माद्धेतोभिन्नम् , इत्याह- 'अणिस्सिय त्ति' भावप्रधानोऽयं निर्देशः, अनिश्रितत्वात्-श्रुतानिश्रितत्वादित्यर्थः । एतदुक्तं भवति- अष्टाविंशतिभेदविचारप्रक्रमेवग्रहादिमत्त्वं सामान्यं धर्ममाश्रित्याऽश्रुतनिश्रितस्य श्रुतनिश्रित एवाऽन्तर्भावो विवक्ष्यते, श्रुता-ऽश्रुतनिश्रितविचारप्रस्तावे त्वश्रुतनिश्रितत्वं विशिष्टं धर्ममुररीकृत्य श्रुतनिश्रितादश्रुतनिश्रितं पृथगेवेष्यते, इत्यागमोक्तस्तयोर्भेदोऽपि न किञ्चिद् विशीर्यते । न च वक्तव्यम्- कथमेकस्यैवैकस्मादेव भेदश्चाऽभेदश्च, विरोधात् ? इति यतो यदि तेनैव धर्मेण भेदः, अभेदश्चेष्येत, स्यात् तदा विरोधः, धर्मान्तरनिबन्धनौ तु भेदा-ऽभेदौ न विरुध्येते । किं हि नाम तद् वस्त्वस्ति, यस्य वस्त्वन्तराद् भेदा-ऽभेदौ न स्तः ? । घटादयोऽपि हि घटादित्वसामान्येन परस्परमभेदिनोऽपि खद्रव्य-क्षेत्र-कालादिमत्त्वेन भिन्ना इति । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् , अनेकान्तजयपताकादिषु विस्तरेणोक्तत्वाच ॥ इति गाथार्थः ।। ३०५॥
स्यादेतत् , किमेतावता कष्टेन ?, मदीयव्याख्यापक्ष एव सुखावहः, श्रुता-ऽश्रुतनिश्रितयोरभेदापत्तेरभावात् , समस्तमीतज्ञानभेदभणनाञ्चति । तदेतदयुक्तम् , सिद्धान्ताभिप्रायबहिर्भूतत्वात् । एतदेवोपसंहारपूर्वकमाह
अट्ठावीसइभेयं सुयनिस्सियमेव केवलं तम्हा । जम्हा तम्मि समत्ते पुणरस्सुयनिस्सियं भणियं ॥ ३०६॥ १५. 'सामान्येन' २ आभिनियोधिकज्ञानं विविध प्रज्ञप्तम् , तद्यथा-श्रुतनिश्रितम् , अश्रुतनिश्रितं च । ३ श्रीनन्दीसूत्रे । ४ यथाऽवग्रहादिसामान्यतोऽपि श्रोबेन्द्रियादिना भेदः । तथाऽवग्रहादिसामान्यतोऽपि तदनश्रिता(तत्वा)द् भिन्नम् ॥३०५॥ ५ प.छ.ज.'तद्यथा' । ६ क.ग. 'श्रुतनिश्रिता'। . अष्टाविंशतिभेदं श्रुतनिश्रितमेव केवलं तस्मात् । यस्मात् तस्मिन् समाप्ते पुनरभुतनिधितं भणितम् ॥ ३०६ ॥
C॥१८॥
asaramorooODIOS
For Peso
Private Use Only